________________
विभक्त्यर्थनिर्णये ।
१२३
स्य कर्मक प्रयोगनिमित्तस्याभावात् । न च विशेषे धात्वर्थत्वं न निविशते तथा च कृतिप्रयोज्यो त्यत्तिस्वरूपविशेषस्य घटे सत्वाद्दर्शितप्रयोगोपपत्तिरिति वाच्यम् । तथा सति कुलोलज्ञानेच्छा प्रयोज्योत्पत्तिस्वरूपविशेषस्य घटे सत्वोत् ज्ञायते घटः स्वयमेवेतिप्रयोगापत्तेः । ननु प्रत्ययार्थोभूतक्रियाकृतविशेषस्य कर्मकर्तृ प्रयोगनिमित्तत्वात् ज्ञायते घटः स्वयमेवेति प्रयोगो न भवति तत्र तिङ्प्रत्ययार्थस्य विषयत्वस्य ज्ञानस्वरूप क्रियाप्रयोषयत्वादिति कृञः कर्मकर्तरि प्रयोगो नानुपपन्न इति चेत् तथापि पचति पच्यति पक्वानित्यादौ फूत्कारादिव्यापारप्रतौतयेऽनेकप्रत्ययानां तत्र शक्तिकल्पने शक्ततावच्छेदकानन्त्यं मम तु पचिधातोरेकस्य फूत्कारादौ शक्तिकल्पने शक्ततावच्छेदक लाघवमिति धातोर्व्यापारवाचित्वं युतं न च द्यर्थः पचिरिति भाष्यविरोध इति वाच्यम् तस्य फलमालगत हित्वबोधकत्वात् न च पचिपर्यायाणां भूयसां धातूनां फूत्कारादी शक्तिकल्पने तवापि न लाघवं किं च पचिगमिप्रभृतीनां भूयसां धातूनां व्यापारेषु शक्तिकल्पनमपेच्याल्पसंख्यकानां प्रत्ययानां शक्तिकल्पने शक्ततावच्छेदकलाघवमिति धातोर्व्यापारवाचित्वं न युक्तमिति वाच्यम् । व्यापारस्य प्रत्ययार्थत्ववादे गच्छतीत्यादौ फूत्कारादेरप्रतीत्या तोधं प्रति पचिसमभिव्याहारस्य हेतुतायाः स्वीकारे तदपेक्षया तत्र पाँचधातोः शक्तिकल्पनाया एव युक्तत्वादिति सर्वधातूनां व्यापारवाचित्वमेवोचितमिति । ननु स्थाली पचतीत्यव पचिसमभिव्याहारेऽपि यथाऽविवचावशाद्योग्यताविरहा
Aho! Shrutgyanam