________________
રર.
द्वितीयाविभक्तिविचारः । कर्मकत्वमप्यनुपपन्नमिति चेन्न । प्रत्ययार्थव्यधिकरणधात्वर्थत्वखरूपफलत्वस्य विक्लित्यादावनपायात् प्रत्ययाव्यापारव्यधिकरणार्थकत्वस्वरूपसकर्मकत्वस्य पच्यादिधातूनामुपपत्तेश्च। एवं च प्रत्ययाव्यापारव्यधिकरणधात्वर्थवत्वं कर्मत्वमिति घटं भावयतीत्यादौ णिजथव्यापारव्याधिकरणधात्वर्थवत्वात् घटादेः कर्मत्वमुपपन्नं यत्नाण्यन्ते णिजर्थान्तर्भावः तत्र शम्भघंटं भवतीत्यादौ तिङ्प्रत्ययस्य णिजर्थव्यापार लक्षणया णिचोऽनुसंधानेन वा कर्मत्वोपपत्तिसम्भवात् । एवं प्रत्ययार्थव्यापारवत्वं कटवं चैत्रः पचतीत्यादौ तिर्थवत्वं चैत्रादेः कर्ट त्वं चैवः पाचयतीत्यादौ णिजर्थवत्वं कट त्वं चैत्रादेरिति एवं तिडां व्यापारान्वितकालबोधकत्वमिति न तिर्थकालान्वयानुपपत्तिः भावप्रत्ययानां घनादीनां व्यापारवाचित्वाभ्युपगमादेव ग्रामो गमनवानित्यादिप्रयोगानापत्तिः एवं तिङयसमवायित्वखरूपव्यापारस्य फलतोवच्छेदकविषयतासम्बन्धेन व्यधिकरणानां ज्ञानेच्छाकृतीनां वाचकतया जानातीच्छति करोतयः सकर्मकाः फलतावच्छेदकसम्बन्धेनैव व्यापारवैयधिकरण्यस्य विवक्षितत्वात् अन्यथा कालिकसम्बन्धेन फलसमानाधिकरणब्यापारवाचित्वात्सकर्मकाणामप्यकर्मकत्वापत्तिरतः एव द्यर्थः पचिरिति महाभाष्यमुत्पत्ति विक्लित्तिस्वरूपफलयं पच्यर्थतया प्रतिपादयति व्यापारस्य धात्वर्थत्वे तु व्यर्थ: पचिरिति स्यादिति मण्डनमिश्रमतम् । अत्र शाब्दिकाः । कजः कृतिमात्रफलार्थकत्वे क्रियते घट: स्वयमेवेतिप्रयोगानुपपत्तिः धात्वर्थव्यापारप्रयोज्यधात्वर्थविशेषवत्व
Aho! Shrutgyanam