________________
विभक्त्यर्थनिर्णये।
१२१ धिगच्छति शास्त्रार्थ इति प्रमाणमियमभिनवा रौतिरिति । कालदेशभावाध्वनामकर्मककर्मत्वमनुशिष्टमिति कालादिवाचकपदेश्यो द्वितीया कर्मस्थभावकयोगे भवतीत्यपि चिन्त्यमेव तथा सति मास श्रास्यते शिष्येरणतिवत् शास्त्रार्थेन मासोऽधिगम्यते इति कर्माख्यातप्रयोगप्रसङ्ग इति यस्य धातो: कचिदपि न कालादिभिन्नगतकर्मत्वबोधकप्रत्ययाकाक्षा सोऽकर्मक: तत्कर्मत्वमेवानुशिष्ठ कालादौनामिति कर्मखभावको धातुस्तु नेदृशाकर्मकः शिष्यः शास्त्रार्थमधिगच्छति शिष्येणाधिगम्यते शास्त्रार्थ इत्यादावधिगम्यादेः कर्मप्रत्ययसाकाशत्वादिति । धातोर्व्यापारमानार्थकतां कर्मप्रत्ययस्य फलार्थकतां मन्वानानां प्राचां मते कर्मस्थभावकधातोापारविशेषितं फलमर्थः आश्रयत्वं तिङर्थः न च व्यापार एव धात्वर्थः फलं तिर्थोऽस्त्विति वाच्यम् । तथा सति कर्माख्याताविशेषप्रसङ्गात् । न च फलमा धावर्थोऽस्त्विति वाच्यम् । तथा सत्यधिगच्छतिस्मरतिश्रद्दधातीनां पर्यायताऽऽपत्तेरधिगमाद्यवगमस्य सर्वसितस्यापलापप्रसङ्गाच्च तस्मादिशिष्टमेव फलं धात्वर्थः फलस्यान धातुनोतत्वादुक्तार्थानामप्रयोग इति न्यायान्न द्वितीयाप्रसङ्ग इत्यस्य प्रागेवोक्तत्वादिति । यत्तु सकर्मकधातूनां पच्यादीनां विक्लित्यादिरूपं फलमेवार्थ: तिङादिप्रत्ययानां व्यापारोऽर्थ इति मन्यन्ते तेषां मण्डनमिश्राणां मते सकर्मकधावूनां कर्मस्थभावकत्वं स्पष्टमेव । नन्विदमयुक्तं विलित्यादेः पूर्वोत्तस्य फललक्षणस्थासत्वाद्धातोफलमाववाचकत्वानुपपत्तिरत एव फलावाचकत्वात्म
सा
१६
Aho! Shrutgyanam