________________
विभक्त्यर्थनिर्णये ।
मकतासम्बन्धेन संयोगात्मकफले तदन्विताश्रयत्वस्वरूपतिङर्थे वा अन्वयायोग्यत्वात् पञ्चम्यनुपपत्तिः न चाव विभागस्य स्वजनक क्रियाजन्यत्वस्वरूप परम्परासं म्बन्धेन संयोगऽन्वयोपगमान्नानुपपत्तिरिति वाच्यम् तथा सति वृचात्संयुज्यते इत्यादौ पञ्चमीप्रयोगापत्ते. पञ्चम्यर्थविभागस्य दर्शित संसर्गेण संयोगेऽन्वयसम्भवात् एवं कर्मस्थभाव के कर्माख्याता विशेषप्रसङ्गोऽपि कर्माख्यातकर्मकर्चाख्यातयोरुभयचैव फलान्वयत्वबोधसम्भवादिति । नन्वेवं पचत्योदन इति प्रयोगः स्यात् कर्मगतव्यापारस्य धातुना तिङा वा प्रतिपादने कर्मण ओदनादेः कट तोपपत्तिरिति चेन्न कर्मवमावस्यानुशासन सिद्धत्वात् तथा च सूचं 'कर्मवत्कर्मणा तुल्यक्रिय इति कर्मणाऽधिकरणेन तुल्या क्रिया नाम प्रधानोभूतधात्वर्थस्तदग्वि
तिर्थो वेति स कर्मववतौति तदर्थः कर्मात्मकाधिकरणेन तुल्यत्वोक्त्या क्रियाया: कर्मवृत्तित्वं प्रतीयते कर्मवृत्ति क्रियाश्रयः कर्मैव भवतीति कर्तृत्वं कर्मणः स्फुटमिति त कर्मवावोक्त्या कर्मकर्तृ कतिसमभिव्याहारे धातोर्यक्चिणात्मनेपदादीनि कर्माख्यातविहितानि भवन्ति तेन पच्यते अपाचि वा ओदनः स्वयमेवेत्येव प्रमाणं न तु पचत्यपाचौदिति । शाब्दिकास्तु यव भावे लकारस्तव कर्मकायें द्वितीया स्यादिति तगड़लं पच्यते इति प्रयोगप्रङ्गः तद्दारणार्थं " लिड्या शिष्याङ"तिसवे संयुक्त लकारद्दय निर्देशः कल्प्यः तत्राद्यं लकार मनुवर्त्य कर्मवदित्यनुशासनं लकाराभिहितः कर्ता कर्मवृत्तिक्रियः कर्मवतीत्यर्थकं तथा च लकारेण कर्तुरनभिधाने क
6
99
Aho ! Shrutgyanam
१२५
-