________________
११६ द्वितीयाविभक्तिविचारः । देर्धातुनाऽभिधाने खड्गादिकरणानां कर्तत्वमेव एवं स्थालौ पचतोत्यादौ विक्लित्यनुकूलव्यापारस्य सन्तापनादेरधिकरणगतस्य धातुनाऽभिधाने स्थाल्यायधिकरणानां कर्तृत्वमेव एवं गिरिरपसरतीत्यादौ विमागस्तदनुकूलव्यापारश्चापसरतेरर्थः स च व्यापारः कर्माभिमुख्यादिस्तद्यक्तित्वादिस्वरूपोपादानगतो यदि विवक्षितस्तदाउपादानस्य कट त्वमेव विभागस्वरूपफलवत्तया पुरुषस्थ कर्मत्वमेवेति पुरुषमपसरति गिरिरित्यपि प्रमाणम् । यदि च स्वजन्यविभागवभिन्नदेशसंयोगानुकूलो व्यापारोऽपसरतेरर्थः स च व्यापारः पुरुषगत: स्पन्दादिर्यदि विवक्षितस्तदा पुरुषस्य कट त्वं क्रियाजन्यविभागवत्तयाऽवधितया वा गिरेरपादानत्वं सम्भवति यदि च कर्माभिमुखत्तिविभागः पर्वतादिगतो विवक्षितस्तदा गिरेः कर्ट त्वमवधितया पुरुषस्यापादानत्वं सम्भवति तेन गिरेः पुरुषोऽपसरति पुरुषागिरिरपसरतौति विविधोऽपि प्रयोगः प्रमाणं धात्वर्थान्तभुतकर्मकत्वाद्दर्शितार्थकोऽपसरतिरकर्मक इति नैतद्योगे हितौयादिकर्मप्रत्ययप्रयोगः । एवं विप्रो ददातीत्यादौ स्वत्वध्वंसस्य तद्दारा स्वत्वान्तरस्य वाऽनुकूलो व्यापारो ददातेरर्थः स च व्यापारोऽनुमत्यादिविप्रगतो यदि विवक्षितस्तदा विप्रस्य कट त्वमेवेति विवक्षावशात्सर्वस्य कारकस्य कर्टत्वमिति अत एव विवक्षात: कारकाणि भवन्तौति प्रवादः। न च प्रधानौभूतधात्वर्थव्यापारवत्वं कर्ट त्वं शाब्दिकस्य संमतं न तु लर्किकस्य तत्कथं न्यायमते दर्शितस्थलेषु कर्ट त्वोपपत्तिरिति वाच्यम् । प्रधानोभूतधा
Aho! Shrutgyanam