________________
विभक्त्यर्थनिर्णये। त्वन्विततिर्थवत्वस्वरूपकर्ट त्वस्य तार्किकसंमतस्य दर्शितस्थलेष्वनपायात् । वस्तुतस्तु धातुना तिङा वा यस्य व्यापारी बोध्यते स कर्ता यथा वन्हिः पचतीत्यत्र करणगती_जलनस्वरूपव्यापारस्य धातुना बोधनाइन्हे: कर्ट त्वमेवं चक्षुः पश्यतीत्यत्र करणसंनिकर्षव्यापारस्य तिङा बोधनाच्चक्षुषः कर्ट त्वमेवं प्रधानौभूतधात्वर्थवत्वं प्रधानीभूतधात्वर्थान्विततिर्थवत्वं चोभयविधमपि कार्ट त्वं नैयायिकसेमतमेव अत एव "प्रमाणतोऽर्थप्रतिपत्तो प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणमि"त्युपक्रमे ऽर्थवति च प्रमाणे प्रमाता प्रमेयं प्रमितिरित्यर्थवन्ती"ति वाल्यायनभाष्यं तत्र प्रमाता स्वतन्तः किं पुनः स्वातन्त्र्यं कारकफलोपभोक्तत्वं यस्मात्कारकाणां फलेनायमभिसंबध्यते तत्समवायो वा इति वार्तिकम् । अत्र तात्पर्यटोकायां मिश्राः । कारकाभिधानसंनिधापितां क्रियां तदिति सर्वनाम्ना परामशति यस्य हि व्यापार प्राधान्येन धातुराख्यातप्रत्ययो वाऽभिधत्ते सः स्वतन्त्रः कर्ता तथा हि विक्लिद्यन्तीत्यत्र तण्डुलादयः कर्तारः पचन्तीत्यत्र देवदत्तादयः तत्कस्य हेतोरकन तण्डुलाापार उपात्तोऽन्यत्र देवदत्तादेरिति प्राहुः । ननु कर्मगतस्यार्थस्य धातुना प्राधान्येनाभिधाने कर्मणः कर्ट त्वं स्यात् तथा च ग्रामो गच्छति घटो जानातीति प्रयोगः स्यादिति चेत् इष्ट एवायं प्रयोगः कर्मस्थभावके धातौ कर्मणः कटत्वादत "एवाधिगच्छति शास्त्रार्थ : स्मरति श्रद्दधातिचे"त्यादयः प्रयोगाः अबाधिगमविषयत्वं स्मरणविषयत्वं श्रद्धाविषयत्वं व्यापारफलयोविशेष्यविशेषणभावव्यत्या
Aho ! Shrutgyanam