________________
विभक्त्यर्थनिर्णये ।
११५
उच्यते । कर्माख्याते व्यापारस्य फलविशेषणतया भानेऽपि न फलत्वं भावाख्याते धात्वर्थविशेषणतया भासमानस्य धात्वर्थस्य सर्वाख्याते फलत्वात् दर्शितलक्षणस्य कर्माख्यातेऽपि व्यापारे विरहात् ईदृशफलवतः कर्मत्वात्तद्दाचकपदादेव द्वितीया भवतौति न दर्शितप्रयोगप्रसङ्गः । एवं सति फलस्य धातुना प्राधान्येन विवचायां फलवतः कर्मणः कर्ट वेsपि व्यापारवतो न कर्मत्वं व्यापारस्य निरुक्तफलत्वायोगात् अतो व्यापारवच्च वाद्यर्थकाच्चैवा. दिपदान्न द्वितौया तण्डुलः पश्यते स्वयमेवेत्यादी ककर्त्वाख्यातेन वा तण्डुलस्य फलवत्तया कर्मत्वेऽपि तण्डुलपदाद् हितीयार्थभेदस्या न्वयायोग्यत्वात् कर्माख्यात दूव कर्मकर्चाख्यातेऽधिकरणत्वस्याभिधानादनभिहित इति निषेधाच्च । ननु कर्मगतफलस्येव करणादिकारकगतव्यापाराणामपि धातुना प्राधान्येनाभिधान सम्भवा. त्करणादीनामपि कर्तृत्वं स्यादिति चेदिष्टमेव करणादोनां कर्तृत्वं साध्वसिछिनत्ति महिषमित्यादाववयवारम्भकसंयोग प्रतिद्वन्दौ विभागः फलं तदनुकूलव्यापारश्च छिनत्तेरर्थः स च व्यापारः खड्डादीनामभिघातादिखरूपः पुरुषादोनां खङ्गाद्युद्यमनादिस्वरूपः तव व्यापारफल यो जन्यजनकभावसंसर्गेणान्वयः फले तथाभूते विभागे factersर्थः सामानाधिकरण्यं सामानाधिकरण्यसंबन्धावच्छिन्नमाधेयत्वं वा महिषादिविशेषितमन्वेति न त्वव सामानाधिकरण्यानवच्छिन्नमाधेयत्वं द्वितीयार्थ: तथा सति हि तां छिनत्तौति प्रयोगो न स्यात् स्वाच्च दलद्दयं छिनत्तौति प्रयोगः खड्गादिगताभिघाता
Aho ! Shrutgyanam