________________
१९४
द्वितीयाविभक्तिविचारः ।
यमूहनीयमिति । एवं सति पच्यते तण्डुल इत्यादी कर्माख्यातेऽपि प्रथमान्तार्थमुख्यविशेष्यक एव शाब्दबोधः फूत्कारादिव्योपारजन्यविक्लित्त्यधिकरणतावा नेकतण्डुल इत्याद्याकारकः सम्भवति । ननु व्यापारस्य विक्तिच्यादिफलविशेषणतया भानोपगमे फलत्वापत्तिः धात्वर्थविशेषणतया भासमानस्य धात्वर्थस्य फलत्वाभ्युपगमात् न च नेदं फलस्य लक्षणं किं तु धात्वर्थस्वरूपक्रियाजन्यत्वे सति धात्वर्थत्वं तथा सति व्यापारस्य विक्लित्त्यजन्यतया न फलत्वं किं तु विक्ति तेरेव तथात्वमिति वाच्यम् । क्रियाजन्यत्वस्य फललक्षणे विशेषयितुमशक्यत्वात् जानातीत्यादी विषयतादिफले ज्ञानाजन्येऽव्याव्यापत्तेः न च विषयता न धात्वर्थफलमिति तत्राव्याप्तिर्न दोषाय जानातेर्ज्ञानमात्रार्थकत्वात् श्रत एव घर्ट जानातीच्छति कुरुते चैत्रो मैत्रेण ज्ञायते इष्यते क्रियते घट इत्यादौ सविषयकार्थकधातुयोगे कर्मप्रत्ययेन यथायथं विषयत्वं विषयत्वं वा बोध्यते भाक्तस्तु जानात्यादेः सकर्मकत्वव्यवहार इत्याख्यावादे दीधितिकृतिरुक्तमिति बाच्यम् । फलव्यापारोभयं धात्वर्थमभ्युपगच्छतां नये द्वितीयार्थस्य फलान्वयनियमात्मविषयकार्थकधातुयोगे द्वितीयाऽनुपपत्तेः द्वितीयार्थस्य व्यापारान्वयोपगमे प्राचीनमतप्रवेशेन फलस्य द्वितीयार्थतापत्त्याधावताविरहप्रसङ्गात् । न च कर्माख्याते व्यापारस्य फलत्वमिष्टमिति वाच्यम् । व्यापारस्य फलत्वे तहतः कर्मत्वापत्त्या तहाचकपदाद् द्वितौयापत्तेः । तथा च चैत्रं पच्यते तण्डुल इत्यादिप्रयोगप्रसङ्ग इति चेत् ।
Aho! Shrutgyanam