________________
विभक्त्यर्थनिर्णये
तियोगित्वस्य रक्ते निराबाधत्वात् अभावाव्याप्यवृत्तित्वस्यावश्यकत्वे प्रतियोगित्वस्याव्याप्यवृत्तित्वानभ्यपगमादित्यस्यान्यत्र विस्तरात् । वस्तुतस्तु नञर्थस्य प्रतियोगिनि विशेषणभावेनान्वयोपगमेऽपि न सर्वव शाब्दबोधस्य धात्वर्थ मुख्य विशेष्यकत्वं सम्भवति जलं गगनं वा न पचतीत्यादी जलादिकर्म कपाका प्रसिद्ध पाकच्यत्यन्ताभावस्य जलादिकर्मत्वे प्रतियोगिनि विशेषणभावेनान्वयोपगमे दर्शितस्थले जलकर्मत्वं पाकटयत्यन्ताभाववदिति शाब्दबोधोपगमे शाब्दबोधस्य जलकर्मत्वमुख्यविशेष्यकतया धात्वर्थपाक मुख्य विशेष्य कत्वहाने: स्फुटत्वात् प्रथमान्तार्थ मुख्य विशेष्यकशाब्दबोधोपगमे तु पाचको न पचतोत्यादौ नञर्थात्यन्ताभावे विद्यमानपाका दिकृतेस्तिङन्तार्थस्य प्रतियोग्य नुयोगिभावसम्बन्धेनान्वयस्ताह शात्यन्ताभावस्य विशेषणतया प्रथमान्तार्थे पाचकादावन्यस्तथा च विद्यमानपाककृत्यत्यन्ताभाववान्पाचक इत्यन्वयबोधो निष्प्रत्यूहः पाचकशब्दायें पाककृ तिमति विशिष्टपाककृत्यत्यन्ताभावस्यान्वयबोधे बाधकाभावात् दण्डिमान् रक्तदण्डवदभाववानितिवत् । एतेन भावनाप्रधानकः शाब्दबोध इत्यपि निरस्तम् । न पचतीत्यादावनुपपत्तेः न चात्र तिर्थभावनाया पाकाभावः प्रतीयत इति वाच्यम् । भावना सामान्यशून्ये सुप्तादौ नायं पचतीत्यादिप्रयोगानुपपत्तेः भावनाया विरहात्तत्र पाकाभावप्रतौत्यनुपपत्तेः मृतो न घचतोत्यत्र मृते भावनासामान्यस्य विरहात्तव पाकाभावप्रतीतेः कथमप्युपपत्त्यसम्भवादित्या दिकं सुधीभिः ख
1
१५
Aho ! Shrutgyanam
११३.