________________
१०९
विभक्त्यर्थनिर्णये। तच्च पश्यधावतिपदयोरेकवाक्यताविरहे न सम्भवति प. दविधेनिघातस्य सामाश्रितत्वात् "समर्थः पदविधिरि"ति व्यवस्थापनात् एकवाक्यतास्वरूपसामर्थ्य बिरहादेव धावतिपदे निघाताप्रसक्तरित्यतिङ इति पदस्य महाभाष्योक्तप्रयोजनोपपत्तये पश्य धावति मृग इत्यादावेकवाक्यत्वमावश्यक तरच प्रथमान्तार्थस्य मृगस्य प्राधान्ये न सम्भवतीत्युक्तं धावनक्रियायाः प्राधान्ये तु तस्यादृशिक्रियायां कर्मतयाऽन्वयोपपत्रधातुरिति पर्यु दासाद्वात्तरं द्वितीयाप्रसक्तिविरहात् दर्शितस्थले एकवाकात्वं निष्पत्यूहमिति । एवं पचन्तिकल्पं चैत्रमैत्रयजदत्ता इत्यादी प्रथमान्तार्थस्य कत: प्राधान्ये तस्य लिङ्गसंख्याऽन्वयायोग्यत्वादाचाय कल्पा बिना इतिवत् पचन्तिकल्पास्ते इति प्रयोगप्रसङ्गः क्रियायाः प्राधान्ये तु तस्या लिङ्गसंख्यावयाथोग्यत्वात्साधुत्वार्थ क्लीवैकवचनमिति न तथाप्रयोगः । एवं भावप्रधानमाख्यातमिति निरुतमपि भावस्य क्रियायाः प्राधान्यमादिशतीति तिङन्तस्थले क्रियाप्रधानक एव शाब्दबोध इति शाब्दिकमतमेवय क्तमिति चेत् । उच्यते । पश्य धावति मग इत्यादौ धावनकर्ट मगस्य बाक्यार्थस्य कर्मतया दृशिक्रियायामन्वयोपगमादेकवाक्यत्वमुपपद्यते वाक्यस्य - त्याऽर्थवत्वाभावात्यातिपदिकसंज्ञाविरहेण ततो द्वितीकाप्रसत्यभावात् अत एव "देवाकर्णयसंग्रामे चापनासादिता: शरा" इत्यादौ चापकर्ट कासादनकर्मणां कर्मतयाऽऽकर्णनक्रियायामन्वयेऽपि न द्वितीया एवं “पश्य लक्ष्मण पम्पायां बकः परमधार्मिक" इत्यादौ पम्यावृत्ति
Aho! Shrutgyanam