________________
११० द्वितीयाविभक्तिविचारः। धार्मिकवकम्य कर्मतया दुशिक्रियायामन्वयऽपि न द्वितीया कालय परिप्लवन्ते गाव इत्यादौ परिप्लवनकर्टगवां कर्मतया कालनेन्वियेऽपि न द्वितीया दर्शि तस्थलेष्वेकवाक्यत्वं तु स्फुटमेव अतः प्रथमान्तार्थस्य प्रधानतायां नैकवाक्यताहानिरिति । यदपि पचन्तिकल्पमित्यादौ कल्पबुत्तरं बहुवचनापत्तिरित्युक्तं तदपि न सुन्दरम् । कल्पबन्तार्थस्य नामाथसामानाधिकरण्ये हि समानलिङ्गवचनत्वं तन्वं प्रकृते तु न्यायमते कल्पवन्तार्थस्य सामानाधिकरण्यविरहात्माधुत्वार्थमेकवचनमेव यु क्तम् । प्रत्यु त कतु राख्यातार्थवादिनां शाब्दिकानां कल्पबन्तार्थस्य प्रथमा न्तार्थे सामानाधिकरण्येनान्वयात् बृहस्पतिकल्पाः पण्डिता इतिवत् पचन्तिकल्पास्ते इति प्रयोगप्रसङ्गः । यत्तु भावप्रधानमाख्यातमिति निरुक्तं तदप्याख्यातार्थेषु संख्याकालभावनासु भावो भावना धात्वथं प्रति प्रधानमित्य तदर्थकमन्यथा नामोऽपि व्यक्तिस्वरूपसत्वप्रधानकशाब्दबोधार्थकताया भावप्रधानमाख्यातं सत्वप्रधानानि नामानौति निरुतेनैव प्रतिपादनादेकतर परिच्छेदस्य कतु मशक्यत्वादिति पदवायरत्नाकर गुरुचरणाः । वस्तुतस्तु पश्य धावति मग इत्यादौ प्रथमान्तार्थमृगविशेषणतिर्थकृतिविशेषणतया शाब्दविषयस्य धावनक्रियायाः कर्मतासंसर्गेण दृशिक्रियायां विशेषणतयाऽन्वयोपगमादप्येकवाक्यत्वं निर्वहति । न चैकत्र वाक्यार्थे प्रधानस्यपरवाक्याथै विशेषणतयाऽन्वय इति नियम इति वाच्यम् । पाचक एधोदकस्योपस्कुरुते इत्यादौ कृ.
Aho I Shrutyanam