________________
१०८ द्वितीयाविभक्तिविचारः। तौयार्थत्वे प्रोदनं पचतौतिवत् खगें यजेतेत्यादिप्रयोगप्रसङ्गः तण्डुलं, पचति ग्रामं गच्छतोत्यादौ तण्डुलग्रामयोर्भाव्यत्वविरहेण तण्डुलग्रामपदाभ्यां हितीयाऽनुपपत्तिश्च न चात्र सम्बन्धः सम्बन्धधौर्वा द्वितीयाऽर्थः तथा च तण्डुलसम्बन्धिपाकग्रामसम्बन्धिगमनयोरेवान प्रतीतिरिति वाच्यम् । तथाऽपि ग्रामो गमिकर्मेति प्रतौतिव्यवहारयोरनुपपत्तः । भाव्यत्वतंस्कार्यत्वाभ्यां विना तदभिव्यङ्ग्यस्यातिरिक्तकर्मत्वस्याप्यभावेन कर्मत्वप्रतीतिव्यवहारयोरुपपत्त्यसंभवादिकं चिन्तनीयमिति । एवं पचति चैत्रो गच्छति मैत्र इत्यादौ प्रथमान्तार्थप्रधानकशाब्दबोध उपपत्तिसिद्धः । ननु प्रथमान्तार्थप्राधान्यं न युज्यते तथा सति पश्य मृगो धा-। वतीत्यत्र मृगस्य धावनक्रियां प्रति प्राधान्ये तस्य हशिक्रियायां कर्मतयाऽन्वयोपगमें मुगपदाद द्वितीया स्यात् मुगपदस्य प्रातिपदिकत्वाद् द्वितीयाप्रसती शटशानजापल्या दर्शितप्रयोग एव वा न स्यात् मृगस्थ प्राधान्ये गुणीभूतधावनक्रियाया दृशिक्रियायां कर्मतया:न्वयो न सम्भवति एकत्र वाक्याथै प्रधानस्यापरवोक्यार्थे विशेषणतयाऽन्वयादर्शनात् । न च दृशिक्रियायां न मगस्य न वा धावनस्यान्वय इति वाच्यम् । तथा सति पश्य धावति मृग इत्यादौ महाभाष्याभ्युपेतस्यैकवाक्यत्वस्यानुपपत्तिप्रसङ्गात् ।तथा हि "तिकृतिङ"इति सूचं तिङन्तभिन्नपरतिङन्ते निघातखरं विदधाति तत् पश्य धावति मग इत्यादौ धावतिपदे निघातवारणमतिङ इतिपदस्य प्रयोजनं महाभाष्येणोक्तम् ।
Ahor onrugyanam