________________
द्वितीयाविभक्तिविचारः ।
गम्यर्थफलसंयोगान्वितं तिङर्थाधिकरणत्वं दर्शितसंस'गण ग्रामे निराबाधमिति तस्य ग्रामेऽन्वयो भवति तस्य तु दर्शितसंसर्गावच्छिन्न प्रतियोगिताकोऽभावः स्वात्मनि मनुष्ये च निराबाध एव स्वात्मनि दर्शितसंसर्गेण मनुष्यान्तरे स्वरूपसंबन्धेनापि चैत्रकर्तृकव्यापारजन्यसंयोगाधिकरणत्वस्यासत्वादिति निषेधप्रतीत्युपपत्तिरिति । एतेन तिलं जुहोति न तु वहिमित्यादौ भेदस्य द्वितीयार्थत्वाभ्युपगमेऽपि निषेधप्रतोत्यनुपपत्तिः वन्हिसंयोगफलकविहितव्यापारार्थकस्य जुहोतेः फले वन्हिसंयोगे वह समवेतत्वस्य वन्हौ व्यापारवस्य च सत्वात् न च वन्हौ जुहोतिकर्मत्वमिष्टमेवात एव " यथाविधिज्ञताग्नौनामित्यव हुतशब्दार्थस्य हवनकर्मणस्तादात्म्यमग्नौ प्रतीयते एवं " जटाधरान् जुहधीह पावकमित्यत्र हि - तौयान्तार्थस्य वन्हिकर्मत्वस्य जुहोत्यर्थेऽन्वय इति वन्हि - कर्मत्वस्य निषेधो हवनेऽयोग्यतया न प्रत्येतुं योग्य इति वाच्यम् । हुताग्नीनामित्यव पावकं जुजधोत्यत्र च संयोगफलकस्वाहाकरणकप्रक्षेपार्थकतया जुहोतेः कर्मप्रत्ययनिष्ठदितौयोपपत्तेः । न च जुहोतेः संयोग एव फलं न तु संयोग इति वाच्यम् । तथासति वन्हि घृतं जुहोतीति प्रयोगापत्तेः एवं पार्थिवद्रव्यप्रतियोगिककण्ठसंयोगफलकव्यापारार्थकस्य भुजयेंगे दूव द्रव्यप्रतियोगिक कण्ठसंयोगफलकव्यापारार्थकस्य पिबतेर्योगे श्रीदनं भुङ्क्ते न तु कण्ठं पयः पिवति न तु कमित्यत्रापि निषेधप्रतीत्यनुपपत्ति: भुजिपिबतिफलयोर्व्यापारवद्वेदस्य च कण्ठे मत्वात् । एवं प्राणवियोगफलकव्यापारा
Aho! Shrutgyanam
1