________________
विभक्त्यर्थनिर्णये । धेयत्वयोः समानसंविसंवेद्यतया कर्मत्वशब्दप्रतिपाद्यत्वात् कर्मत्वार्थकतया हितौयाकर्माख्यातयोः पर्यायत्वसम्भवात् । न चैवं कर्माख्याते फलान्विता धैयत्वस्यानभिधानाट् द्वितीयाप्रसङ्ग इति वाच्यम् । फलान्विताधिकरणत्वतहतोरन्यतरानभिधानस्यैव हितौयाप्रयोजकत्वात् तयोरन्यतरबोधकशब्दासमभिव्याहृते द्वितीयार्थान्वययोग्यार्थक पदे सति द्वितीया भवतीत्यस्योक्तत्वात् । एवं चैत्रेण ग्रामो गम्यते इत्यादावेकचैत्रकर्ट कव्यापारजन्यसँयोगाधिकरणतावानेकग्राम इत्यन्वयनोधः । कर्माख्यातस्थले टतौयार्थकतवं व्यापार व्यापार: फले फलं तिर्थाधिकरणत्वे तिङर्थः प्रथमान्तार्थेऽन्वेतीति । अत्रापि चैत्रेण ग्रामो गम्यते न तु स्वात्मा न वा मनुष्य इति निषेधप्रतीत्यनुरोधेन कर्माख्यातस्य भेदोऽप्यर्थः । खावच्छिन्न प्रतियोगिताकत्वसंबन्धेन व्यापारो भेदे भेदोविशेषणतया प्रथमान्तोऽन्वेति । तथा च तादृशसंयोगाधिकरणतावान् व्यापारावच्छिन्न प्रतियोगिताकभेदवानेकग्राम दूत्यन्वयबोधः । संयोगविशिष्टविशेषणता भेदस्य संसर्गः तादृशविशेषणतासंसर्गावच्छिन्न प्रतियोगिताकस्य व्यापारावच्छिन्नप्रतियोगिताकदाभावस्य खात्मनि मनुष्ये च सत्वान्निषेधप्रतीतिरुपपद्यते। अभिनवरौतौ तु संयोगफलकगम्यादिना विभागफलक त्यज्यादिना च समभिव्याहृतस्य कर्माख्यातस्थार्थोऽधिकरणत्वं व्यापारवद्भेदसमानाधिकरणत्वविशिष्टसमवायावच्छिन्नाधिकरणत्वीयस्वरूपसंबन्धेन प्रथमान्तार्थेऽन्वेति । चैत्रेण ग्रामो गम्यते न तु स्वात्मा न वा मनुष्य इत्यत्व
Aho ! Shrutgyanam