________________
द्वितीयाविभक्तिविचारः ।
द्वितीयार्थाधेयत्वस्य संयोगसमानाधिकरण विशेषतासम्बन्धावच्छिन्नाधेयत्वीय स्वरूपसम्बन्धेन भेदेऽन्ययोपगमादर्शि तस्थले मनुष्यनिरूपिताधेयत्वस्य द्वितीयान्तार्थस्य दर्शितमस्वावच्छिन्न प्रतियोगिता कमभावं दोधयता नञो निषेधप्रतीतेर्निष्प्रत्यूहत्वात् किं च भेदस्य द्वितौयार्थत्वोपगमे द्वितीयान्तपदवटित शब्दसामग्रभेदोपस्थितः सर्वत्र प्रवेश ेन भिन्नविषयकप्रत्यचादिप्रति बन्धकतायां गौरवं विनिगमका भावादानन्त्यां च स्यादिति संयोगादिव्यासज्य वृत्तिफलक गम्यादिधातोर्भेदार्थक वे तु गम्यादिवटितशाब्दसामग्रग्रामेव भेदोपस्थितेः प्रवेशेन सर्वत्राप्रवेशेन लाघवं स्यादिति विभाव्यते तदा भेदो न हितीयाया न वा धातोरर्थः किं तु गम्यादिफले संयोगे त्यज्यादिफले विभागे द्वितीयार्थाचे यत्वस्य व्यामारवङ्गेदसमानाधिकरणत्वविशिष्टसमवायावच्छिन्नाधे
९६
यत्वौयस्वरूपसंबन्धेनान्वयोऽभ्युपेयते तत एव चैवश्चैचं गच्छतौत्यत्र न शाब्दबोधः चैवाधेयत्वस्य दर्शि तसं सर्गेण संयोगेऽयोग्यत्वात् चैत्रो ग्रामं गच्छति न तु कन वा मनुष्यमित्यादौ स्वाधेयत्वस्य मनुष्याधेयत्वस्य च दर्शित संबन्धावच्छिन्नप्रतियोगिताको भावो नञा संयोगे बोध्यते अतो निषेधप्रतीतिरुपपद्यते । एवमेव चैत्रश्चै त्यजतीत्यत्र न शाब्दबोधः । न वा चैत्रो ग्रामं त्यजति न तु स्वं न वा मनुष्यमित्यत्र निषेधप्रतीत्यनुपपत्तिरितीयमभिनवा रौतिः सुधीभिराकलनीयेति । । एवं कर्माख्यातस्य फलान्वितमधिकरणात्त्वमर्थः । न च हितौयापर्यायत्वानुपपत्तिरिति वाच्यम् । अधिकरणत्वा
Aho ! Shrutgyanam