________________
विभक्त्यर्थनिर्णये। ब्दसम्भवादीदृश कार्यकारणभाव मानाभावात् । हितोयान्तसमभिव्याहारात् प्रकृत्यर्थविशेषिताहितीयार्थस्य विशेषणतया फलेऽन्वयसम्भवाद्दर्शित कार्यतावच्छेदकस्याथसमाजगस्तत्वाच्च । किं च दर्शित कार्यकारणभावेन चैवश्चैत्रं गच्छतौत्यन शाव्दवारणेऽपि खगो भुवं गच्छति न तु स्वमित्यत्र निषेधप्रतीत्युपपत्तिनं भवति । स्वकर्मकत्वाभावस्य विना भेदं प्रत्येतुमशक्यत्वादिति मेदस्य हितीयार्थत्वावश्यकत्वे तावतैव चैत्रश्चैवं गच्छतौत्यत्र चैत्रकर्मकत्वशाब्दासम्भवान्निष्प्रामाणिकतरी दर्शितोऽयं कार्यकारणभावः । यदि च पचतीत्यादी भेदप्रतीतिनिषेधमुखनापि न भवतिगम्यादौ तु भुवं गच्छति न तु स्वमिति निषेधप्रतीत्यन्यथाऽनुपपत्या भेदप्रतीतिरावश्यको तत्र भेदः फलविधया धात्वर्थः तत्र हितौयार्थस्याधेयत्वस्याऽन्वयः तस्य च प्रतियोगितावच्छेदकतया व्यापारेऽन्वयः संयोग इव भेदोऽपि फलविधया धात्वर्थ एव तावताऽपि न तु स्वमिति निषेवप्रतीत्युपपत्तिरिति भेदो धातोद्वितीयाया वा शक्य इत्यत्र विनिगमनाविरहः । न च भेदस्य फल विधथा गम्यर्थत्वे भेदरूपफलत्वात् गामत्वम्य कर्मत्वं स्यात् तथा च गामत्वं गच्छतौति प्रयोगापत्तिरिति वाच्यम् । संयोगभेदाभयफलवतो गमिकर्मत्वात् तदुभयविरहेण गामत्वम्य कर्मत्वायोगात्तथा प्रयोगानोपत्तेः । न च चैत्रो ग्राम गच्छति न तु मनुष्यमित्यत्र निषेधप्रतीत्यनुपपत्तिः । संयोगे चैत्रात्मकस्य भेद चैत्रान्य मनुष्यस्थाधे यतायाः सत्वात् तदभावप्रतीत्यसम्भवादिति वाच्यम्।
Aho! Shrutgyanam