________________
द्वितीयाविभक्तिविचारः । ताकमल्लभेदस्य मल्लत्तिव्यापारे सामानाधिकरण्यासम्मवात् शब्दार्थाभावेऽन्वयितावच्छेदकतरधर्मावच्छिन्नप्रतियोगितया पदार्थान्वयस्याव्युत्पन्नत्वात् । न वा द्वितीयान्तार्थ प्राधेयतया व्यापारवान् प्रतियोगितया भेदे तत्यामानाधिकरण्यं फलेऽन्वेतीत्यपि सम्भवति गामं गच्छतौत्यत्र व्यापारवतस्ताटूप्ये णानुपस्थितेः । तव मते त्वाश्रयत्वेन तिडोपस्थापितस्य तस्य धात्वर्थविशेषणतया अन्वितत्वात् हितौयालक्ष्यप्रविष्टभेदेऽन्वयासम्भवात विशेषणतयाऽन्धितस्यापि पदान्तरार्थान्वयीपगमे तु मृगो धावति पश्येत्यत्रापि मृगे विशेषणतयाऽन्वितम्य धावनस्य दृश्यर्थान्वयप्रसङ्गात् । भेदस्य लक्ष्यैकदेशतया तत्त्र पदार्थान्वयस्य सर्वमतेऽप्यव्युत्पन्नत्वाच्च । न च द्वितीयाया आश्रयो वाच्यः भेदो लक्ष्यः प्रकृत्यर्थस्य तादात्म्येनाश्रये आधेयतया भेदे आश्रय आधेयतया फले भेदः प्रतियोगितया व्यापारीन्तीति वाच्यम् । युगपद्दत्तियविरोधात् भेदस्य लघुतया शक्यत्वोपपत्तौ गुरुतयाऽऽश्रयस्यैव लक्ष्यत्वापत्तेश्च । यदपि भेदे द्वितीयाया न शक्तिः किं तु हितीयार्थाधिकरणविशेषितफलप्रकारतानिरूपितविशेप्यतासंबन्धेन शाव्दं प्रति हितौयान्तार्थत्यन्योन्याभावप्रतियोगितावच्छेदकव्यापारोपस्थितिविशेष्यतासंबन्धेन कारणमतश्चैवचैत्रं गच्छतीत्यत्र न शान्दबोधः । तादृश-'. व्यापारोपस्थितिविरहादिति नव्यशाब्दिकैरुक्तम् । तदस्यसत् । द्वितीयान्तं विनापि गच्छतोत्यादौ फलप्रकारतानिरूपितव्यापारविशेष्यताकशाब्दबोधोदयात् । तत्व क्लसामगवां द्वितीयान्तसमभिव्याहारोऽपि फलप्रकारकशा
Aho ! Shrutgyanam