________________
९१ द्वितीयाविभकिविचारः । हितीयार्थाधेयत्वस्योद्देश्यत्वे कर्मशब्दार्थस्याधेयतावतस्तन विधेयत्वं न सम्भवति अभेदातिरित्तसम्बन्धेनोद्देश्यविधेयभावेन प्रकृतिप्रत्ययार्थयोरन्वये प्रकृत्यतावच्छेदकप्रत्ययार्थयोरन्योन्याभावस्य न कर्म गच्छतीति प्रयोगः । एवमधिकरणमाश्रयं वा गच्छतीति न प्रयोगः। अधिकरणाश्रयशब्दयोनिरूपकतया ऽऽधेयतावदर्थकत्वात् । अधिकरणतावदर्थकत्वे तु आश्रयं श्रयन्तौतिवत् अधिकरणमाश्रयं वा गच्छतौतिप्रयोगो भवत्येव । ननु भवतु द्वितीयाया प्राधेयत्वमर्थः । खगो भुवं गच्छति न तु स्वमित्यादौ निषेधप्रतीत्यनुरोधेन भेदोऽप्यर्थ: स्यात् । तथाऽपि यन्मते सत्यनियामकः सम्बन्धः प्रतियोगितावछेदको भवति तन्मते खगो भुवमित्यादौ दर्शितस्थले चैलो ग्रामं गच्छति न तु मनुष्यमित्यादौ च कथं निषेधप्रतीतिः प्रतियोगितावच्छेदकत्वसम्बन्धस्य - त्यनियामकतया तत्संसर्गावच्छिन्नप्रतियोगिताकस्य स्ववृत्तिभेदाभावस्थाप्रसिध्या खगकर्तृकगमने तत्प्रतीतेरसम्भवात् । एवं मनुष्यत्तिभेदप्रतियोगितावच्छेदकत्वीभयसम्बन्धस्य वृत्त्य नियामकतया तत्सम्बन्धावच्छिन्द्रप्रतियोगिताकमनुष्यसामान्याभावस्याप्रमिध्या चैत्रकत. कगमने तत्यतीतेरसम्भवादिति चेन्न तन्मतेऽपि निषेधप्रतीतिः सम्भवति हितीयार्थभेदस्य स्वसमानाधिकरणफलसम्बन्धित्वप्रतियोगिताव पछेदकत्वोभय सम्बन्धाव- ' च्छिन्नविशेषणतासम्बन्धेन सर्वत्र व्यापारऽन्वयः । एवं खगो भुवं गच्छति नतु स्वमित्यत्र स्वष्टत्तिभेदस्य स्त्रसमानाधिकरणसंयोगजनकत्वसम्बन्धेनावच्छिन्वया विशेष
Aho ! Shrutgyanam