________________
विभक्त्यर्थनिर्णये । यास्तथाविधसंसर्गावच्छिन्नप्रतियोगिताकस्वाभावप्रकारिकाया एव शाब्दधियः समभ्युपगमः । वृत्त्य नियामकसंबन्धस्य प्रतियोगितावच्छेदकतायास्त्वयैवाभ्युपगमादति चेन्न । त्यनियामकसम्बन्धस्य प्रतियोगितावच्छेदकत्वेऽपि हितौयायाः सार्थकत्वस्यावश्यकत्वात् चैनो ग्रामं गच्छति न तु मनुष्यमित्यादौ क्वचिमाधुत्वार्थत्वेऽपि सर्वत्र साधुत्वमावार्थतया हितौयायाः कर्मत्वाद्यनर्थकत्वे मानाभावात् । न च कर्मत्वाद्यर्थकत्वे मानाभावात् द्वितीयाया निरर्थकत्वमिति वाच्यम् । विनौया न कर्मलवाचिकेति ज्ञानापि ग्रामं गच्छतौल्यत्र कर्मतासंसर्गेण ग्रामस्य गमनेऽन्वन्यप्रसङ्गात् । ग्रामीयं न कर्मत्वमिति बाधग्रहेपि कर्मतासंसर्गेगा ग्रामस्य गमनेऽन्वयबोधप्रसङ्गाच्च । तादृशबाधस्य कर्मतासंसर्गकग्रामान्वयबुद्धावविरोधित्वात् । एवं गमनं न ग्रामकर्मताकमिति बाधकालेऽपि कर्मतासंसर्गेण ग्रामस्यान्वयबोध: स्यात् । तत्संसर्गाभाववत्ताज्ञानस्य तत्संसर्गकबुद्धावविरोधित्वात् । किं च हितीयाया निरर्थकत्वे कर्म गच्चतौतिप्रयोगः स्यात् । कर्मग कर्मतासंसर्गेण ग्रामेऽन्वयबोधे निष्पत्यूहत्वात् । सार्थकत्वे तु न तथाप्रयोगः सम्भवति । कर्मेत्यत्र हितौयाया निराकानत्वात् । शाब्दिकमते कर्मणो द्वितीयार्थत्वात्कर्म कर्मत्यभेदान्वयबोधो न भवति उद्देश्यतावच्छेदकविधेयतावच्छेदकयोभेदस्य तथान्वयबोध तन्त्रस्य विरहान्न तथाप्रयोगः न्यायमते तु द्वितीयाया आधेयत्वमर्थः । निरूपकतया प्राधेयतावान् कर्मशब्दार्थः । तथा च कर्मेतिहितीयान्तप्रयोगे
Aho! Shrutgyanam