________________
द्वितीयाविभक्तिविचारः। बुद्धौ हितौयान्तप्रातिपदिकजन्या पदार्थोपस्थिति: गम्यादिधातुजन्या व्यापारोपस्थितिश्च कारणं तेन ग्रामोग्रामात् ग्रामेण वा गच्छतोत्यादौ न तथा शाब्दबुद्धिः ग्रामोपस्थितेहितौयान्तपदाजन्यत्वाद् न वा घटपदेन लक्षणया स्यन्दोपस्थितावपि ग्रामं घट इत्यादौ तथाशाब्दबोध: स्यन्दीपस्थितेर्धातुजन्यत्वाभावात् । एवं सर्ववैव खटत्तिफलसंबन्धित्वस्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसंबन्धन प्रातिपदिकार्थप्रकारकशाब्दबुद्धौ हितीयान्तपदजन्योपस्थिति: मामान्यतः कारणां धातुजन्योपस्थितिस्तु विशेषत: कारणं तेन स्पन्दिजन्योपस्थितेर हेतुत्वाद् ग्रामं स्पन्दते इत्यादौ न तथा शाब्दबोध: । न च दशितोभयसंबन्धस्य कर्मत्वात्मकत्वात्कमतासंसर्गेण प्रातिपदिकार्थप्रकारकशाब्दे हितोयान्तपदजन्योपस्थितेयभिचार:"देवाकर्णय संग्रामे चापनासादिताः शरा"इत्यादी पूर्वमेव दर्शित इति कथमौदृशः कार्यकारणभाव इति वाच्यम् । आसादनकर्मशराणां वाक्यार्थत्वात्यातिपदिकार्थत्वविरहात् व्यभिचाराप्रसक्तः । कृदन्ततद्धितान्तसमासानां वाक्या नां प्रातिपदिकसंज्ञाविधानाहाक्यार्थस्यापि तेषामर्थस्य प्रातिपदिकार्थत्वमक्षतमेवेति कर्मतासंसर्गेण कृदन्तादिवाक्यार्थप्रकारिका शाब्दधौः प्रातिपदिकार्थप्रकारिकैवेति पाचकमानय दाक्षि भोजय स्वेष्टदेवं पूजयेत्यादौ न हितीयान्तपदजन्योपस्थितेरन्वयव्यभिचारः । एवं खगो भुवं गच्छति न तु स्वमित्यत्रोपि दर्शितोभयसंबन्धात्मककर्मत्वसंसर्गेण भूप्र कारिकायास्तथाविधसंसर्गावच्छिन्न प्रतियोगिताकस्वाभावप्रकारिका
Aho! Shrutgyanamar