________________
विमत्स्यथानणय |
प्रकृत्यर्थस्य द्वितीयार्थावेयत्व ेन गम्यादिफलसंयोगायोग्य वक्तव्यः । स्वपदं परिचायकमवयवः समवायौ तेन गगनं चेवनं कालं दिशं वा गच्छतीति न प्रयोगः । न च मनः परमाणुं गच्छafaप्रयोगोऽनुपपन्न इति वाच्यम् । इष्टत्वात् । परमागुमन सोर्मिथः संयोगसत्वेऽपि गगनघटयोरिव गम्यगन्टभावानभ्युपगमात् । गगनं गच्छतीत्यादौ गगनपदं दर्शितसम्बन्धावच्छिन्न प्रतियोगिताका काशाभावपरं तादृशाकाशाभावस्य विशेषणतया द्वितीयार्थाधेयत्वेऽन्वय इति यदि च वृचादौ संयोगो व्याप्यवृत्तिर्न तु तदधिकरणता तदा द्वितीयार्थाधेयत्वस्य स्वनिरूपक प्रकृत्यार्यात्मकाधिकरणावयव निष्ठावच्छेदकतानिरूपितावच्छेद्यतासमानाधिकरणेन समवाय। च्छिन्नाधेयत्वीय स्वरूप संसर्गेण गमिफले संयोगे त्यजिफले विभागे चान्वयस्तेन गगनादिकं गच्छति त्यजति वेति न प्रयोगः । दर्शितसंसर्गेण दितीयार्थाधेयत्वस्य संयोगे विभागे च बाधात् । गगनादिकं गच्छति त्यजति वा इत्यादौ दितौयार्थाधेयत्वस्य दर्शितसंसर्गावच्छिन्नप्रतियोगिताको भावः संयोगे विभागे चान्वेतीति तत्प्रयोगोपपत्तिः । प्राचीं गच्छ - तीत्यादी दिगुपाधिमत उदयगिरिसंनिहितदेशस्य प्रा'चौपदेन प्रतिपादनान्नानुपपत्तिः । एवं शकुनिः खं ग
छतीत्यादौ खशब्देन वायुमण्डलस्य प्रतिपादनान्नानुपपत्तिः । एवं प्रयोक्तृपुरुषाधिष्ठित देशावधिकगमनकट देशममवतपरत्वनिरूपितापरत्वस्य समानाधिकरणः संयोग आङ्पूर्वस्य गमेः फलं तादृशापरत्वस्यासमानाधि
Aho ! Shrutgyanam