________________
द्वितीयाविभक्तिविचारः । गम ने स्वाधेयसंयोगजनकत्वस्य सत्वात्तस्य निषेधः । न वा स्वाधे यसंयोगजनकगमनकट त्वस्य खगे सत्वात्तस्य निषेधो नञा बोधयितुं शक्य इति निषेधप्रतीत्यनुपपत्तिः भेदस्य बितौयार्थत्वे तु स्वपदार्थविहगत्तिभेदस्थ प्रतियोगितावच्छेदकताया विहगकर्ट कगमने विरहा - त्तस्य निषेधो नञा बोध्यत इति निषेधप्रतीत्युपपत्तिः । एवं रूपं न गच्छतोत्यादौ रूपत्तित्वाभाव एव गमिफले संयोगे नजा बोध्यते रूपसमवेतसंयोगस्या प्रसिद्ध : . रूपकर्मकगमन कट त्वोभावस्य बोधयितुमशक्यत्वात् । न च गम्यादिसमभिव्य हृतहितीयायाः समवायाद्यवच्छिन्नाधेयत्वं यद्यर्थस्तदा शक्त्यानन्त्यं जातिमभावं वा न गच्छतीत्यादौ निषेधप्रतीत्यसम्भवञ्च जातिनिरूपितस्याभावनिरूपितस्य च समवायावच्छिन्नाधेयत्वस्याप्रसिद्धेरिति वाच्यम् । आधे यतात्वेनाधेयतासामान्यैव हितौयार्थत्वेन शक्त्यानन्त्यविरहात् गम्या दसम भित्र्याहारे तु समवायावच्छिन्नाधेयत्वीयस्वरूपसंबन्धेन फले संयोगादावाधेयत्वस्यान्वयोपगमात् दर्शितस्थले जातिनिरूपितस्याभावनिरूपितस्य चाधेयत्वस्य ममवायावच्छिन्नाधेयत्वीयस्वरूपसंसर्गावच्छिन्नप्रतियोगिता कमभाव संयोगे बोधयता नञा निषेधप्रतीतिसम्भवाच्च । कालि
कविशेषणतासंबन्धावच्छिन्नाधेयत्वीयस्वरूपसंसर्गस्य द्वितीयार्थाधेयताया अनन्वयोप्रयोजकत्वात् का लं पचतीत्यादिको न प्रयोगः अत एव कालिकविशेषणतादिघटितव्यापकत्वार्थ पृथगनुशासनमित्यादिकं वक्ष्यते । एवं स्वावयवावच्छेद्याधिकरणतानिरूपितत्वसंबन्धे न
Aho! Shrutgyanam