________________
८८.
द्वितीयाविभक्तिविचारः ।
करणः संयोगः आङ्वर्जितस्य गमेः फलमिति तेन प्रयागात्काशौ मागच्छति शक्रप्रस्थं गच्छतीति प्रयोगः प्रयागात् शक्रप्रस्थमागच्छति काशीं गच्छतौति न प्रयोगः पाटलिपुत्रस्थानामिति । नतु भेदस्य द्वितीयार्थताभ्युपगमेन विहगो भूमिं गच्छति न तु खमित्यादौ निषेधप्रतीत्युपपादनेऽपि चैवो ग्रामं गच्छति न तु मनुष्यमित्यादौ निषेधप्रतीत्यनुपपत्तिस्तदवस्यैव गम्यर्थ संयोगे चैत्रात्मक मनुष्य समवेतत्वस्य व्यापारे च मनुष्यान्तरहत्तिभेदस्य प्रतियोगितावच्छेदकतायामत्वात् । द्वितौयार्थयोराधेयत्वभेदयोर्निषेधस्य तव बोधयितुमशक्यस्वात् चैत्रो मनुष्यं गच्छतौतिप्रयोगापत्तिश्च । न च तत्तन्मनुव्यनिष्ठान्योन्याभावप्रतियोगितावच्छेदकं तत्तन्मनुष्यष्टत्तिसंयोगजनकत्वविशिष्टं यावत् तावदभाबकूट एव नञा प्रतिपाद्यते । तथा च चैवात्मकमनुष्यवृत्तिसंयोगजनकत्वविशिष्टं यत् चैत्रात्मकमनुष्यवृत्तिभेदप्रतियोगितावच्छ्रेकत्वं चैत्रकर्मकान्यदीयग-मनेऽस्ति तदभावस्य नञा बोधनात् मनुष्यान्तरकर्मकचैव कगमने यत्किंचिन्मनुष्यष्टत्तिसंयोगजनकत्वविशिष्टस्य यत्किंचिन्मनुष्य निष्ठ भेदप्रतियोगितावच्छेदकत्वस्य विरहेऽपि चैवो मनुष्यं न गच्छतौ न प्रयोगः तादृशतावदभावकूटस्य तादृशचैवगमनेऽसदिति वाच्यम् । भेदस्यैव द्वितीयार्थतया तावदवच्छेदकत्वस्यानुपस्थित्या तदभावग्रहासम्भवात् तावदभाव कूटस्य युगसहस्रेणापि ग्रहीतुमशक्यत्वाच्च । तस्माद् द्वितीयाया भेदार्थकत्वेऽपि निषेधप्रयोगोपम तिर्न सम्भवतीति चेन्न । यत
Aho! Shrutgyanam