________________
विभक्त्यर्थनिर्णये। शत्यानन्त्यमधिकरणतासामान्यस्य तथात्व कालं पचतीति प्रयोगप्रसङ्ग इति पूर्वमेवोक्तमिति वाच्यम् । अधिकरणतासामान्यस्यैव हितीयार्थत्वात् । अधिकरणताया: खनिरूपिततत्तत्संसर्गावच्छिन्नाधेयत्वसम्बन्धेन फलेऽन्वयोपगमात् । कालिकविशेषणतासम्बन्धावच्छिन्त्राधेयत्वस्य विक्लित्तिसम्बन्धत्वानभ्युपगमात् । न च तण्डुलं पचतीत्यत्र तण्डलाधिकरणतायाः खनिरूपितेन तण्डुल सामानाधिकरण्यावच्छिन्नाधयत्वेन सम्बधेन फले विक्लित्तावन्वयेन सम्बन्धस्य खनिरूपितलविशेषणं गौरवमावहत्याश्रयस्य तादृशाधयत्वसम्बन्धेनान्वये स्वनिरूपितत्वाप्रवेशान्न सम्बन्धगौरवमित्याशयस्यैव हितीयार्थत्वं युक्तमिति वाच्यम् । सम्बन्धगौरवस्याकिंचित्करत्वात् । वाच्यतावच्छेदकगौरवस्य लक्षगाजाने हेतुतागौरवापादकत्वात् द्वितीयाशक्याधिकरगा सम्बन्धीतिलक्षणाज्ञानस्याधिकरणातात्वविशिष्टाधिकरणत्वावच्छिन्नाधिकरणविषयतानिरूपितसम्बन्धविषयताकत्वेन हेतुत्वं वाच्यं तदपेक्षया हितौयाशक्याधिकरणतासम्बन्धीतिज्ञानस्याधिकरणतात्वावच्छिन्नाधिकरणताविषयतानिरूपितसम्बन्धविषयताकल्वेन हेतुत्वं लघुभूतमिति सम्भवति लघौ गुरौ न शक्यतावच्छेदकत्वं मन्यन्ते तान्त्रिका: । नन्वाश्रयस्याधिकरणताया वाऽऽधय चसम्बन्धेन फलेऽन्वयोपगमे प्रातिपदिकाथस्वाधेयत्वेन कर्मत्वाख्यसम्बन्धेन धात्वर्थफलेऽन्वयोऽस्तु तत्र द्वितीयासमभिव्याहारस्तन्वमित्येवास्तु किमधिकरगास्याधिकरणताया वा द्वितीयार्थत्वकल्पनया प्र
Aho ! Shrutgyanam