________________
द्वितीयाविभक्तिविचारः ।
मवच्छेदकत्वसम्भवे गुरुणः स्पर्शवत्वस्यानवच्छेदकत्वं स्यात् । यद्यन्यतमत्वस्य पृथ्यादिभिन्नप्रतियोगिघटितस्य भेदस्य नाखण्डत्वं तदा गगनादिप्रतियोगिघटितस्य गगनाभावादेरपि नाखण्डत्वं तुल्यत्वात् । निरवच्छिन्नविषयतया गगनाभावादेरप्रतीतेः । गगनाभाव इति प्रतीतो गगनप्रतियोगिकस्त्र द्रव्यादिषट्कान्योन्याभावविशिष्टस्य विषयत्वात् । न चातिरिक्तमेवाश्रयत्व' द्वितीयाप्रवृत्तिनिमित्तमिति वाच्यम् । शब्दप्रवृत्तिनिमित्तानुरोधेनातिरिक्तवस्तु कल्पनाया अन्याय्यत्वात् । अन्यथा समासप्रवृत्तिवादिनां खपुष्पादिशब्दप्रवृत्तिनिमित्ततयाऽतिरिक्तवस्तु कल्पनाप्रसङ्गः । अथ खपुष्पादिकमतिरिक्तं क्लृप्तमेवेति चेत् तर्हि अतिरिक्तखपुष्पादिसदृशस्यातिरिक्तवस्तुनो द्वितौयार्थत्वकल्पनाऽपेक्षया ख- । पुष्पं पश्येत्यादौ कर्मत्वेन क्ल प्तम्य खपुष्पस्य लाघवात् द्वितीयार्थत्वं स्यात् । अथाधिकरणत्वाधेयत्त्रयोरातिरेक्यं दौधितिकृद्भिर्युक्त्या वयवस्थापितमिति खपुष्ये न कापि तादृशी युक्तिरिति चेत् तत्राप्यधिकरणताऽऽ - धेयत्वयोरातिरैक्यं दोधितिकृतिरङ्गीकृतम् । अन्यथाऽधिकरणता इत्याकारकप्रतीत्यनुपपत्तेः प्रकारत्वानिरूपित विशेष्यतायाः प्रकार विना प्रकारतायाश्चासिद्ध: । दर्शितप्रतीतावधिकरणात्वं विनाऽन्यस्य प्रकारत्वायोगात । अगत्याऽधिकरणतत्वविशिष्टस्य हितया प्रवृत्तिनिमित्तत्रमिति चेन्न । लाघवादधिकरगातात्वस्यैव द्वितीयावृत्तिनिमित्तत्वाद्गतिसम्भवात् । न चाधिकरणतानां तत्तत्संसर्गावच्छिन्नानां द्वितीयार्थत्वे
८०
Ahat Shrutavanam