________________
विभक्त्यर्थनिर्णये । पि धात्वर्थफले संसर्गविशेषावच्छिन्नाधेयत्वेन सम्बन्धेनाश्रयत्वस्यान्वयः सुधीभिरू हनीयः । एवं कर्तकर्मणोराश्रयत्वेनाविशेषेऽपि धात्वर्थस्य व्यापारास्याश्रयः कर्ता फलस्याश्रयः कर्मेति विशेषः सम्भवति । नन्वेवं गम्यर्थस्य स्पन्दस्याश्रयत्वेन कर्तृत्वमिव तोदृशस्य संयोग स्याश्रयत्वेन कर्मत्वमपि चैत्रस्य स्यात् तथा च चैनो गमिकर्मेतिव्यवहारप्रचैत्रश्चैवं गच्छतौति हितौयापत्तिाचेनि चेत् न परया कर्ट संजया कर्मसंज्ञाया बाधात्कर्मव्यवहाराप्रसतोः । कर्मसंज्ञाया एव हितीयाप्रयोजकत्वाकर्मसंज्ञाविरहे द्वितीयाया अप्रसक्तेश्च न च क संतया कथं कर्मसंज्ञाबाध इति वा व्यम् । या पराऽनवकाशा चेति परिभाषणात् अत एव अपादानसं प्रदान करणाधारण कर्मणां कर्तुं चोभयसंप्राप्तौ परमेव प्रवर्तते इति
पठन्ति । एवं कर्मगतस्य फलस्य विवक्षायां प्रधानीभूहतधात्वर्थाश्रयत्वेन कर्मणः कतत्वमेव यथा पच्यते त
ण्डुलः स्वयमेव एवमपादानत्वस्य विभागादे/तुना प्राधान्येन बोधनेऽपादानस्य कत त्वमेव यथा गिरिरपसरतोत्यादौ । एवं संप्रदान करणाधिकरणानामपि कर्तत्वमाकलनीयमित्याहुः । तार्किकास्तु आयो न द्वितीयाबाच्यः । आश्रयतात्वविशिष्टस्याश्रयस्य शक्यतावच्छेदकत्वे गौरवात् तेन रूपेण वाच्यत्वासम्भवात् । न चाश्रयत्वमखण्डङ्गगनाभावाद्यात्मकं तस्य निरवच्छिन्नशक्यतावच्छेदकं सम्भवतीति वाच्यम् । जातीतरस्य निरवच्छिन्नावच्छेदकत्वासंभवात् । अन्यथा एथिववादिचतुष्टयान्यतमत्वस्वरूपस्याखण्डोपाधेट्रव्यारम्भकताया
Aho! Shrutgyanam