________________
८२
द्वितीयाविभक्तिविचारः ।
त्युत द्वितीयान्ततिङन्तवाक्याकाङ्क्षाज्ञानघटितशाब्दसामग्रयां द्वितौयाजन्याया अश्र रोपस्थितेः प्रवेशेन गौरवमाधौयते इत्यनया रौत्या सर्वा विभक्तिर्निरर्थिव । न च तण्डुलं पचति न जलमित्यादी जलकर्म कपाकस्याप्रसिद्धेस्तत्कर्तृत्वाभावो न प्रत्येतुं शक्यते किं तु पार्क जलकर्मकत्वाभावः तत्र द्वितीयाया निरर्थकत्वे कर्मणोऽनुपस्थितेर्न जलकर्मत्वाभावप्रतीतिः सम्भवतीति वाच्यम् । तत्र कर्मत्वाख्याधेयत्वसम्बन्धेनावच्छिन्नप्रतियोगिता कस्य जलाभावस्यैव पाके प्रतीतेः आधेयत्वसम्बन्धस्य नृत्यनियामकतया प्रतियोगितानवच्छेदकत्वे त्वाश्रयस्य द्वितीयार्थतावादेऽपि तत्सम्बन्धावच्छिन्नप्रतियोगिताकाश्रया
भावाप्रसिद्धेर्जलकर्मकत्वाभावप्रतीत्यनुपपत्तेः । न चाश्रयस्य यार्थत्वे जलं न पचतीत्यच जलभेद अश्रिये तस्य पाकेऽन्वयस्तथा च जलान्यकर्मकत्वं पाके प्रतौयत इति नानुपपत्तिरिति वाच्यम् । प्रकृत्यर्थाभाव - स् प्रत्ययार्थे प्रत्ययार्थाभावस्य प्रकृत्यर्थे चान्वयस्याव्युत्पन्नत्वात् माषतण्डुलोभयं पवत्यपि तण्डलं न पचतीतिप्रयोगापत्तेश्च तण्डुलान्य कर्मकत्वस्य माषकर्मकपा के सत्वात् । अथ द्वितौयाया निरर्थकत्वं न युज्यते । तथा हि । कर्मता सर्गको हितीयासमभिव्याहारो न हेतु: "देवाकय संग्रामे चापेनामादिताश्शरा" इत्यादौ चापकर्तृकासादनकर्मणां कर्मता संसर्गेणाकर्णनेऽन्वय बोधस्य विना द्वितीयां दर्शनात्। न चात्र वाक्यार्थस्य कर्मतान्वयेऽपि शब्दान्तरार्थाविशेषितप्रातिपदिकार्यस्य कर्मतासंसर्गेण बंधे द्वितीयासमभिव्याहारो हेतुः प्रकृते आसा
Aho L Sha