________________
विभक्त्यर्थनिर्णये ।
७७
महाभाष्येण पश्य धावति मृग इत्यव प्रदर्शितं तेन तिङन्तपरे धात्रतिपदे निघातखरो निषिध्यते । तत्र पदविधेर्निघातस्य सामर्थ्याश्रिततया तिङन्तयोर्व्यपेक्षायामेवेदं प्रयोजनं भवति तिङन्तयोर्व्यपेक्षा तु तदैव सम्भवति यदि क्रियायाः प्राधान्यं स्यात् । तेन मृगकर्तृकधावनक्रियायाः कर्मतासंसर्गेण दृशिक्रियायामन्वयः सम्भवति क्रियाया धात्वर्थत्वात् धातोरधातुरितिपर्युदासात्प्रातिपदिकसंज्ञा विरहान्त्र द्वितीयाप्रसङ्गः । धावनकर्तृम्मृगस्य प्रधानस्य दृशिक्रियायां कर्मतयाऽन्वये मृगदाद द्वितीया स्यात् । द्वितीयायां लटोऽप्रथमासामानाधिकरण्ये शत्रुशानजापत्या दर्शितवाक्यप्रयोग एव न स्यादिति । एवमाश्रयस्य द्वितीयार्थत्वे तत्तत्ससर्गावच्छिन्नाधेयत्वेन सम्बन्धेन तस्य फलेऽन्वय इति व्युत्पत्तिवैचिच्च संसर्गविशेषलाभसम्भवात् न संसर्गविशेषावच्छिनवमाश्रये विशेषणमिति संसर्गभेदेन भिन्नं न शक्त्यानत्यमिति अधिकरणताया आधेयताया वा द्वितीयाऽर्थतापक्षो न युज्यते ऽधिकरणतात्वस्य शक्यतावच्छेदकत्वे गौरवात् कालं पचतीति प्रयोगप्रसङ्गाच्च । कालत्यधिकरणतानिरूपकत्वस्य विक्तित्तावबाधित्वात् । तत्तत्संगविच्छिन्नाधिकरणत्वादेस्तत्तद्दातु साकाङ्क्षद्दितीयाशक्यत्वे शक्त्यानन्त्यमिति । श्रधिकरणस्य द्वितीयार्थत्वे तु अधिकरणत्वं जातिवत्स्वरूपेणैव द्वितीयाप्रवृत्तिनिमित्तं तञ्चाखण्डोपाधिर्गगनाभावस्वरूपोऽतिरिक्तो वेत्यन्यदेतत् । अधिकरणस्य संसर्गविशेष लाभो व्युत्पत्तिवैचिच्य णेत्युक्तमिति न शक्त्यानन्त्यमिति तण्डुलं पचतीत्यादौ तण्डुलात्म
Aho ! Shrutgyanam