________________
विभक्त्यर्थनिर्णये। वर्धतिजीवतिमियतीनां न सकर्मक त्वमिति तेषां वारणाय सत्यन्तम् । अनुचितकर्माऽनुत्पादफल कव्यापारीलज्जेरर्थः अनुचितकर्म यहेतुकं ततः पञ्चमी स्वतो लज्जते परतो लज्जत इति दर्शनात् । अनुत्पादरूपफलाधिकरणस्यानुचितकर्मणोऽभिधानादेव लज्जतिरकर्मकः । एवं स्वगतानिष्टचिन्तनं बिभतेरथः । चिन्तनविषयतारूपस्य फलाधिकरणस्य चिन्तनसमानाधिकरणस्य फलस्य वाऽनिष्ट स्थाभिधानादिभेतिरकर्मकः । श्रात्मधारणानुकूलव्यापारार्थकस्य भवतेरात्मधारणस्वरूपफलसमानाधिकरणब्यापारवाचकत्वम् एवं सुखस्य फलस्य समानाधिकरणं व्यापारमभिदधतो रमतेः गतिरूपफलसमानाधिकरणनित्तिमभिदधतस्तिष्ठतेश्च फलसमानाधिकरणब्यापारवाचकत्वमिति भवतिरमतितिछत्यादीनां वारणाय फलव्यधिकरणत्वं व्यापारे विशेषणम् । तच्च फलाधिकरणनिष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वं तेन गम्यादेः फलाधिकरणबत्तिव्यापारवाचित्वेऽपि न सकर्मकत्वहानिः गम्यादेर्धात्वन्तरार्थफलाव्यधिकरणव्यापारार्थकत्वेऽपि सकर्मकत्वार्थ फले स्वार्थत्वं विशेषणम् । तेन स्पन्दमभिदधतः स्पन्दतेः यत्नमभिदधतो यते मचिमभिदधतो रोचतेः दुःखमभिदधतोबाधते: नाशमभिदधतो नश्यतेः दौप्तिमभिदधतो दीप्यतेश्च व्यापारमानार्थकतया स्पन्दतियतिरोचतिबाधतिनयतिदीप्यतीनां स्वार्थफलाभावान्न सकर्मकत्वमिति । अकर्मकपर्यायोऽकर्मक एव यथा शब्दायतिपर्यायः घटपटायतिप्रभृतिः लज्जतिपर्यायस्वपति: रमिपर्यायो दो
Aho! Shrutgyanam