________________
७४
द्वितीयाविभक्तिविचारः ।
1
यत्यादिः विभेतिपर्याय स्वस्यतिः बाधतिपर्यायी व्यतिः रोतिपर्यायस्वदतिः । एवमन्येऽपि बोध्याः । फलत्वं तु न वार्यव्यापारजन्यत्वे सति धात्वर्थत्वं जन्यताप्रवेशेन गौरात् किं तु धात्वर्थव्यापार विशेषणतया भासमानत्वे सति धात्वर्थत्वम् । एवं विषयता ज्ञानं च जानाते: उद्देश्यत्वमिच्छा चेच्छतेः । साध्यत्वाख्यविषयत्वं यत्नश्च उत्यत्तिस्तदनुकूलव्यापारश्च वा करोतेः बाध्यत्वाख्यविषथत्वं द्वेषश्च द्विषेः लौकिकविषयता प्रत्यक्षं च साचात्करोतेः सा घ्राणजं च जिघ्रतेः सो रासनं च रसयतेः । सा चाक्षुषं च पश्यतेः सा स्पार्शनं च स्पृशतेः सा श्रावणं च विषयता शब्द च शृणोतेः विधेयताऽनुमितिश्च तृतीयान्तविधेयबोधकशब्दयोगे उद्देश्यताऽनुमितिश्चानुमातेः विधेयता तर्कश्च तृतीयान्ततादृशशब्दयोगे उद्देश्यता तर्कचापाद्यतेश्चार्थः । विषयतादीनां ज्ञानादौ विशेषणतयाऽन्वयित्वान्निरुक्तफलत्वं निराबाधमिति "जानात्यादीनां निरुक्त सकर्मकत्वं निष्प्रत्यूहमिति । सुखवन्तमात्मानमिच्छति सुरभि चन्दनं जिघ्रति ध्वनन्तं शङ्ख शृणोतीत्यादौ सविशेषणे हौति न्यायेन सुखसौरभनिsarनानां द्वितीयार्थे ऽन्वयस्तस्य च धात्वर्थफलेऽन्वयः । एवमेवेदृशस्थले कर्मलकारोपपत्तिरत एव " दधानो निध्वानमश्रूयत प्राञ्चजन्य" इति माघः । पुष्पं जिघ्रतीत्यादौ प्राणजानुगुणप्राणसन्निकर्षस्तदनुकूलव्यापारश्च शक्या भक्त्या वा जितेरर्थ इत्युपपत्तिः । एवं धात्वर्थफलशालित्वं कर्मत्वमिति । अत्र शाब्दिकाः । आश्रयः कमहितीयार्थः । तथाहि । धातूनां फले व्यापारे च श