________________
(५०४) वसंतराजशाकुने एकोनविंशतितमो वर्गः। वामा प्रदीप्ते ककुभः प्रदेशे लाभं तथानर्थमुपाददाति ॥ शिवा रटंती पथि दक्षिणा तु क्षिपत्यनर्थावटसंकटेषु ॥ ॥५६॥शांते दिगंते यदि वा प्रदीप्ते पृष्ठे प्रयाणप्रतिषेधायत्री । शब्दायमाना तु शिवा पुरस्तानिमज्जयत्यापदगाधसिंधौ ॥ २७ ॥ वामेऽपसव्ये पुरतोऽथ पृष्ठे पुंसः शिवा जल्पति यत्र तत्र ॥ आयांति चौराः प्रथमे विरावे द्वयोर्भवेत्तस्करदर्शनं च ॥५८ ॥ नृपादरोऽर्थागमनं तृतीये तुर्य क्षितिः पंचमकेऽर्थलाभः॥ वाणिज्यसेवा विफलाथ षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ ५९॥
॥टीका॥ यदि नरस्य शृगाली वामा रारटीति अवश्यं तदाऽर्थलाभं वितरति।दक्षिणतः रटंती अर्थक्षयं कुरुते ॥ ५५ ॥ वामेति ॥ प्रदीप्ते ककुभः प्रदेशे वामा लाभं तथानर्थमुपादधाति । तथा प्रदीप्ते ककुभः प्रदेशे शिवा दक्षिणा रठंती अनर्थावटसंकटेषु क्षिपति तत्रानर्थःप्राणव्यपरोपणमवटः उत्पथप्रक्षेपः संकटं कष्टमेतेषां वंदतेिष्वित्यर्थः ॥ ५६ ॥ शांते इति ॥ शांते यदि वा प्रदीप्ते दिगन्ते पृष्ठे शब्दायमाना शिवा प्रयाणप्रतिषेधयित्री स्यात् । पुरस्तादने शब्दायमाना तु आपदगाधसिंधौ आपद एव अगाधः अलब्धतलः स चासौ सिंधुः समुद्रस्तस्मिन् “अगाधमतलस्पशेम्" इत्यमरःनिमज्जयति पातयतीत्यर्थः॥५७॥वामे इति। वामेपसव्ये दक्षिणे पुरतः अथ पृष्ठे यत्र तत्र पुंसः शिवा जल्पति तदा प्रथमे विरावे चौराः आयोति द्वयोः शब्दयोस्तस्करदर्शनं भवेत् ॥ ५० ॥ नृपतिः ॥ तृतीये नृपादरः राजसम्मा:
॥ भाषा॥
क्षय होय ॥ ५५ ॥ वामति ॥ दीप्त दिशामें वामांगमें शृगाली बोले तो अलाभ अनर्थ कर और प्रदीप्त दिशामें जेमने भागमें बोले तो अनर्थ गढेलेमें पडनो संकट ये होय ॥ १६ ॥ शान्ते इति ॥ शांत वा दीप्त दिशामें शृगाली पीठपीछे बोले तो गमनको निषेध जाननो. ऐसी होय अगाडी बोलै तो आपदारूपी अगाध समुद्रमें पडे ॥ ५७ ॥ वामे इति ॥ और वाई जेमनी अगाडी पीठपीछे जहां तहां शृगाली बोले तो पुरुषकू प्रथम शब्दमें तो चोर आवे दोय बोलमें चौरको दर्शन होय ॥ १८ ॥ नृपेति ॥ तीसरे शब्दमें राजाको सम्मान अर्थको आगमन होय. चौथे बोलमें पृथ्वी वा कष्टकी हानि होय. पांचवें बोलमें अर्थको लाभ होय.
Aho ! Shrutgyanam