________________
शिवारुते यात्राप्रकरणम् ।
( ५०३ )
कुबेरकाष्ठां प्रति यः प्रयाति ज्वालामुखी चाभिमुखी विरौति ॥ तस्याध्वगस्याभिमतार्थसिद्धिर्भवेच्च सम्पत्पुनरागमश्च ॥ ५२ ॥ तिष्ठति तीव्रकरो दिशि यस्यां फेत्कुरुते यदि तत्र शृगाली ॥ तद्वजतः पथिकस्य भवतां निश्चयतो धनजीवितनाशौ ॥ ५३ ॥ दक्षिणतः प्रथमं यदि पश्चाद्वामगता पथिकस्य शृगाली || फेत्कुरुते कुरुते तदवश्यं क्षेमधनाप्तिगृहागमनानि ॥ ५४ ॥ अध्यास्य शांतां ककुभं नरस्य वामा शृगाली यदि रारटीति ॥ तदर्थलाभं वितरत्यवश्यमर्थक्षयं दक्षिणतो रटंती ॥ ५५ ॥
॥ टीका ॥
उदीचीमुत्तरां चलितस्य पृष्ठे शिवा विरावं मुंचति यदि विवस्वान्नभसो मध्ये आस्ते तदा अर्थहानिः मरणं च दृष्टम् ॥ ५१ ॥ कुवेरेति ॥ यः पुमान्कुवेरकाष्ठां प्रति उत्तरां प्रति प्रयाति ज्वालामुखी शिवा च अभिमुखी विरौति तस्याध्वगस्य अभिमतार्थसिद्धिर्भवेत् । संपच्च पुनः आगमश्च स्यात् ॥ ५२ ॥ तिष्ठतीति ॥ यस्यां दिशि तीव्रकरः सूर्यस्तिष्ठति तत्र यदि शृगाली फेत्कुरुते तदा व्रजतः पथिकस्य निश्चयतः जीवितधननाशौ भवेताम् ॥ ५३ ॥ दक्षिणत इति । यदि शृगाली प्रथमं दक्षिणतः अपसव्यतः प्रयाति पश्चाद्ममगता पथिकस्य फेकुरुते तदा तस्य अवश्यं क्षेमधनाप्तिगृहागमनानि कुरुते । क्षेमं च धनाप्तिश्च गृहागमनं चेति द्वंद्वः ॥ ५४ ॥ अध्यास्येति ॥ शांतां ककुभमध्यास्य आश्रित्य ॥ भाषा ॥
1
शाकूं चलतो होय वाकूं पीठपीछे शृगाली बोलै जो सूर्य आकाशके मध्यभागमें स्थित होय तो अर्थकी हानि मरण ये होंय ॥ ५१ ॥ कुबेरेति ॥ उत्तरदिशाकूं जातो होय वाकूं शृगाली सम्मुख बोले तो बाकं वांछित अर्थकी सिद्धि होय और संपदा होय आगम होय ॥ १२ ॥ तिष्ठतीति ॥ जा दिशामें सूर्य स्थित होंय बांई दिशामें जो शृगाली बोलै तो मार्ग चलबेवाले निश्चय जीव धन इनको नाश होय ॥ ५३ ॥ दक्षिणत इति ॥ जो शृगाली पहले जेमने भागमें आवे पीछे वामभागमें आय शब्द करे तो मार्गीकूं अवश्य कल्याण, धनकी प्राप्ति, घरकूं आगमन करै ॥ ८४ ॥ अध्यासेति ॥ शांतदिशामें स्थित होय और बांई होय शब्द बोले तो अवश्य अर्थको लाभ होय. जो जेमनी बोलै तो अर्थको
Aho! Shrutgyanam