________________
(५००) वसंतराजशाकुने-एकोनविंशतितमो वर्गः। प्राची दिशं सम्मुखभानुबिंबा प्रतिष्टमानस्य नरस्य यस्य ।। शब्दं शृगाली पुरतः करोति बंधं वधं च प्रकरोति तस्य ॥ ॥ ३९ ॥ प्राची दिनेशाभिमुखस्य यस्य प्रयातुकामस्य शिवा सशब्दा ॥ भियेऽर्थनाशाय च दक्षिणा स्याद्वामा पुनवांछितकार्यसिद्धयै ॥ ४० ॥ प्रत्यर्कमाशां चलितस्य पूर्वा शिवा विरावं पुरुषस्य यस्य ॥ करोति पृष्ठे प्रकरोति तस्य सर्वप्रकारामभिलाषसिद्धिम् ॥४१॥ प्रस्थायिनो यस्य च दक्षिणस्यां शिवा खं मुंचति दक्षिणेन ॥ आदित्ययुक्ता यदि नो तदानीं भवेद्धवं तस्य महीपतित्वम् ॥४२॥
. ॥ टीका ॥ दिशि तु अभीष्टक्षयाय वांछितनाशाय भवति स्यात् ॥ ३८ ॥ प्राचीमिति ॥ प्रा. ची दिशं प्रतिष्ठमानस्य यस्य नरस्य सम्मुखभानुबिंवा शृगाली पुरतः शब्दं करोति तस्य बंध वधं च प्रकरोति ॥ ३९ ॥ प्राचीमिति ॥ दिनेशाभिमुखस्य प्रयातुका. मस्य यस्य पुंसः प्राची प्रति पूर्वी दिशं प्रति अर्कसम्मुखमित्यर्थः । या शिवा सशब्दा सा तस्य भिये स्यात् । दक्षिणा अपसव्याऽर्थनाशाय च स्यात् । वामा पुनः वांछितकार्यसिद्धयै स्यात् ॥४०॥ प्रत्यर्कमिति ॥ पूर्वामाशां दिशं चलितस्य यस्य पुरुषस्य शिवा पृष्ठे प्रत्यर्कम् अर्कसम्मुखं विरावं करोति तस्य सर्वप्रकाराम अभिलाषसिद्धि प्रकरोति ॥ ४१ ॥ प्रस्थायिन इति ॥ दक्षिणास्यां दिशि प्रस्थायिनः यस्य पुरुषस्य दक्षिणेन अपसव्येन शिवा रवं विरावं मुंचति यदि आदित्य
॥ भाषा॥
तो वांछितको क्षय होय ॥ ३८ ॥ प्राचीमिति ॥ पूर्वदिशा प्रति चल्यो मनुष्य वक सूर्यके सम्मुख देखरही ऐसी शृगाली अगाडी शब्द करै तो वाकू बधमंधन करै ॥ ३९ ॥ प्राचीमिति ॥ पूर्वदिशामें गमन की पुरुषकू सूर्यके संमुख देखती हुई बांई बोटे तो भयके अर्थ और जेमने भागमें बोले तो अर्थको नाश करै. जो फिर वामभागमें जाय बोले तो वांछित कार्यकी सिद्धिके अर्थ जाननी ॥ ४० ॥ प्रत्यकमिति ॥ पूर्व दिशाकू गमन कर्ता पुरुषकू शृगाली पीठपीछे सूर्यसम्मुख देखती हुई शब्द करे तो वा पुरुषकं अभिलाषाकी सिद्धि करै ॥ ४१ ॥ प्रस्थायिन इति । दक्षिण दिशाकू जाय वाकू शृगाली जेमने भाग में ओले और वा दिशामें सर्य नहीं होय तो वा पुरुषकू पृथ्वीपतिपनो निश्चय होय ॥ ४२॥
Aho! Shrutgyanam