________________
शिवारुते यात्राप्रकरणम् ।
( ४९९ )
वातस्तृतीये त्वशनिश्चतुर्थे म्रियेत कश्चित्खलु पंचमे च ॥ लभेत पृथ्वीं निनदे च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ ३६ ॥
इति शिवारुते स्वराष्टकप्रकरणम् ॥ ३ ॥ क्षेमलाभ पुनरागमनानां निश्चयं समधिगम्य विशंकः ॥ येन याति पथिकः परदेशं तच्छिवारुतमथ प्रथयामः ॥ ॥ ३७ ॥ यं देशं गंतुमभ्युद्यतानां पुंसां शब्दानुच्चरंती शृगाली || शांताशायां सिद्धये वांछितानां दीप्तायां तु स्यादभीष्टक्षया ॥ ३८ ॥
॥ टीका ॥
वात इति ॥ तृतीये शब्दे वातः स्यात् । चतुर्थेऽशनिः विद्युत्पातः । पंचमे शब्दे कश्चिन्त्रियेत । षष्ठे निनदे पृथ्वी लभेत । सप्तमे भीः स्यात् । अष्टमस्तु विफलः ॥ ३६॥
इति वसंतराजशाकुने टीकायां शिवारुते स्वराष्टकप्रकरणं तृतीयम् ॥ ३ ॥ क्षेमेति ॥ अथ येन शिवारुतेन क्षेमलाभपुनरागमनानां क्षेमं कल्याणं लाभः प्राप्तिः पुनरागमनं परावृत्त्यागमनम्। एतेषामितरेतरद्वंद्वः । तेषां निश्चयं समधिगम्य अवधार्य विशंकः शंकारहितः परदेशं याति । तच्छिवारुतं वयं प्रथयामः विस्तारयामः ॥ ३७ ॥ ययमिति ॥ यंयं देशं गंतुमभ्युद्यतानां पुंसां शांताशायां शांतायां दिशि शब्दानुच्चरंती शृगाली वांछितानां सिद्धये भवति । दीप्तायां
॥ भाषा ॥
शृगालीको दूसरो शब्द वृष्टि करे ॥ ३५ ॥ वाम इति ॥ तीसर शब्दमें वात पवन होय. चौथे शब्द में वज्रपात होय. पांचमे शब्द में कोई मरे, छठेशब्दमें पृथ्वीको लाभ होय. सातमें श ब्दमें भय होय. आठमा शब्द तो निष्फल है ॥ ३६ ॥
इति वसंतराजशाकुने भाषाटीकायां शिवारुते स्वराष्टकप्रकरणं तृतीयम् ॥ ३ ॥ क्षेमेति ॥ अब जा शृगालीके शब्द करके कल्याण लाभ परदेश जायकर पीछो आवनो इनको निश्चय जानकरके पुरुष निःसंदेह परदेशकूं जाय वो शृगालोको शब्द हम - स्तार करक कहें हैं ॥ ३७ ॥ ययमिति ॥ जा जा देशकूं जायबेकूं तयारी करी मनुष्यनें उनकूं शांत दिशामें शृगाली बोले तो वांछितनकी सिद्धि होय, और जो दीप्त दिशामें बोले
Aho! Shrutgyanam