________________
( ४९८) वसंतराजशाकुने - एकोनविंशतितमो वर्गः ।
दिश्युत्तरस्यां विहिते विरावे म्रियेत कश्चित्प्रथमे द्वितीये ॥ महाभयं विप्रवधस्तृतीये क्षत्रं चतुर्थे खलु हन्यते च ॥ विट्पंचमे षष्टरवे च शूद्रो भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ ॥ ३३ ॥ राहोस्तथा दर्शनमाद्यशब्दे के तोद्वितीये च तथोत्तरेण || उल्कापातस्त्रिषु दुर्दिनं च चतुर्षु भद्रं खलु पंचमे स्यात् ॥ ३४ ॥ संगो भवेद्वैरिजनस्य षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ आद्ये भवेदुर्दिनमीशदेशे वृष्टिर्द्वितीये च वे शिवायाः ॥ ३५ ॥
4
॥ टीका ॥
मस्तु विफलः ॥ ३२ ॥ दिशीति ॥ उत्तरस्यां दिशि प्रथमे विरावे विहिते कश्चित म्रियेत । द्वितीये महाभयं भवति । तृतीये विप्रवधः स्यात् । चतुर्थे क्षत्रं हन्यते । पंचमे विद्वैश्यः हन्यते। षष्ठे रवे शूद्रः हन्यते । सप्तमे भीः स्यात् । अष्टमस्तु विफलः ॥३३॥ राहोरिति ॥ तथोत्तरेण आये शब्दे राहोर्दर्शनं स्यात् । द्वितीये शब्दे के तोर्दर्शनं भवति । त्रिषु शब्देषु उल्कापातः स्यात् । चतुर्षु दुर्दिनं स्यात् । “दुर्दिनं मेघजं तमः" इति हैमः । पंचसु खलु निश्चयेन भद्रं कल्याणं स्यात् ॥ ३४ ॥ संग इति ॥ षष्ठे शिवाशब्दे वैरिजनैश्च संगः स्यात् । सप्तमे भीः स्यात् । अष्टमस्तु विफलः। तथा ईश देशे ऐशान्यामाधे शब्दे दुर्दिनं स्यात् । शिवायाः द्वितीये च रवे वृष्टिर्भवेत् ॥३५॥
॥ भाषा ॥
सातमें शब्दमें भय होय. आठमों शब्द तो निष्फल है ॥ ३२ ॥ दिशीति ॥ उत्तर दिशा में शृगाली पहलो शब्द बोले तो कोई मरे, दूसरे शब्दमें महान् भय होय. तीसरे शब्द में ब्राह्मणको वध होय. चौथे शब्दमें क्षत्रिय मरै. पांचमें शब्द में वैश्य मरे. छठे शब्दमें शूद्र मरे. सातमें शब्दमें भय होय. शृगालीको आठमा शब्द तो निष्फल है ॥ ३३ ॥ राहोरिति ॥ उत्तर दिशामें शृगालीके पहले शब्दमें राहुको दर्शन होय. दूसरे शब्दमें केतुको दर्शन होय. तीसरे शब्द में उल्का प्रपात होय. चौथे शब्दमें मेघादिक कर खोटो दिन होय. पांचमें श ब्दमें कल्याण होयं ॥ ३४ ॥ संग इति ॥ छठे शब्दमें बैरीजनन करके संगहोय. सातमें शब्दमें भय होय, आठमा शब्द तो निष्फल है. ईशानमें शृगालीको पहलो शब्द दुर्दिन करे..
Aho ! Shrutgyanam.