________________
शिवारुते स्वराष्टकप्रकरणम् । (४९७) मृत्युस्तृतीये द्विचतुष्पदानां हानिश्चतुर्थेऽप्यथ पंचमे च ॥ चौराद्भयं राजभयं च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु॥ ॥ २९ ॥ शब्दे शिवाया वरुणस्य भागे आये भयं हानिरथ द्वितीये ॥स्याद्राजदूतागमनं तृतीयेदाहश्चतुर्थे खलु चौरभीतिः॥३०॥ स्यात्पंचमे राजभयं च षष्ठे भीः सप्तमे स्याद्धिफलोऽष्टमस्तु । वायव्यभागे भयमेकशब्दे भयातिरेको भवति द्वितीये ॥ ३१ ॥ वृष्टिस्तृतीये महती चतुर्थे मेघागमो वर्षति पंचमे च ॥ क्रोधं विधत्ते नृपतिश्च पष्टे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥ ३२॥
॥ टीका ॥ मृत्युरिति ॥ तृतीये शब्दे द्विपदानां चतुष्पदानां मृत्युः स्यात् । चतुर्थे शब्दे हानिः । अथ पंचमे च शब्दे चौराद्भयं भवति । षष्ठे राजभयं भवति । सप्तमे भीः स्यात् । अष्टमस्तु विफलः॥ २९ ॥ शब्दे इति ॥ वरुणस्य भागे पश्चिमदिशि शिवायाः आये रखे भयं भवति । अथ द्वितीये हानिः । तृतीये राजदूतागमनं स्यात् । चतुर्थे दाहः स्यात् । पंचमे खलु निश्चयेन चौरभीतिः स्यात् ॥३०॥ स्यादिति ॥ षष्ठे राजभयं स्यात् । सप्तमे सामान्येन भीः स्यात् । अष्टमस्तु विफलः। तथा वायव्यभागे शिवायाः एकशब्दे भयं भवति । द्वितीय भ. यातिरेको भयाधिक्यं भवति ॥३१॥वृष्टिरिति ॥ तृतीये महती वृष्टिर्भवति । चतुर्थे मेघागमो भवति।पंचमे च वर्षतिषष्ठे नृपतिः क्रोधं विधत्ते।सप्तमे भीः स्यात् । अष्ट.
॥भाषा ॥ शब्दमें गोकुलको वात होय ॥ २८॥ मृत्युरिति। तीसरे शब्दमें मनुष्यादिक और चौपदा इनकी मृत्यु होय.चौथे शब्दमें हानि होय. पांचमें शब्दमें चोरते भय होय.छठे शब्दमें राजभय होय. सातमें शब्दमें भय होय.आठमो शब्द तो निष्फलहै।।२९||शब्दे इति ॥ पश्चिम दिशामें शिवा पहलो शब्द बोले तो भय होय.दूसरो शब्द बोले तो हानि होय.तीसरे शब्दमें राजाके दृतको आगमन होय. चौथेमें दाह होय. पांचमें शब्दमें निश्चयकर चौरको भय होय ॥ ३० ॥ स्यादिति ॥ छठे शब्दमें राजभय होय. सातमें शब्दमें सामान्य भय होय. आठमों शब्द तो निष्फल है. और वायव्य कोणमें शृगालीके पहले शब्द बोलबेमें तो भय होय. दूसरे शब्दमें भयकी अधिकता होय ॥ ३१ ॥ वृष्ठिरिति ॥ शृगालोके तीसरे शब्दमें महान् वृष्टि होय, चौथे शब्दमें मेघको आगमन होय. पांचों शब्दमें वर्षा होय. छठे शब्दमें राजाको क्रोध होय
.Aho! Shrutgyanam