________________
शिवारुते यात्राप्रकरणम् । (५०१) वैवस्वताशां चलितस्य यस्य दिवाकरस्तिष्ठति दक्षिणेन । शिवा च वामा कुरुते विरावं संपद्यते तस्य महीपतित्वम् ॥ ॥४३॥ पुमान्यदा याम्यककुष्प्रवासी करोति शब्दं पुरतः शृगाली ॥ आस्ते विवस्वानपि सम्मुखश्चेद्भवेत्तदानीमचिरेण मृत्युः॥४४॥ नरस्य यामी ककुभं यियासोः शृगालभार्या यदि पृष्ठभागे । फेत्कारमामुंचति पंचभावस्तत्सप्तरात्रेण भवत्यवश्यम् ॥ ४५॥ दिशं प्रतीची व्रजतः शृगाली नरस्य यस्याभिमुखा विरौति॥शांतस्थिताशांतफलप्रदात्रीदीप्ता तु दीप्तं फलमातनोति ॥४५॥
॥ टीका ॥ युक्ता शिवा न भवति तदानीं तस्य महीपतित्वं ध्रुवं भवेत् ॥ ४२ ॥ वैवस्वतेति ॥ वैवस्वताशां दक्षिणाशां प्रचलितस्य पुंसः दिवाकरः दक्षिणेन अपसव्यभागेन तिष्ठति शिवाच वामं विरावं कुरुते तस्य महीपतित्वं संपद्यते । क्वचित् संपद्यते तस्य समस्तमिष्टमित्यपि पाठः॥४३॥ पुमानिति ॥ यदा पुमान्याम्यककुष्प्रवासी स्यात्। दक्षिणगामी भवेदित्यर्थः पुरतस्तस्य च शृगाली शब्दं करोति चेद्विवस्वानपि शूगाल्याःसम्मुखः आस्ते तदानीमचिरेणाल्पकालेन गंतुः मृत्युः स्यात्॥४४॥नरस्येति॥ यामी ककुभं यियासोनरस्य यदि पृष्ठभागेशृगालभार्या फेत्कारमामुंचति तदा सप्तरात्रेण पंचभावः पंचानां भाव पंचत्वं मरणमवश्यं स्यात्। पंचत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् इति हैमः॥४५॥दिशमिति॥प्रतीची पश्चिमां दिशं बजतो नरम्य यस्य शृगाली अभिमुखा विरोति।तत्रायं विशेषायदि शांतास्थिता तदा शांतफलदा त्री स्यात् । दीप्ता तु दीप्तास्थिता तु दीप्तं फलमातनोति। 'प्रतीची स्यात्तु पश्चिमा"॥
॥भाषा॥ वैवस्वतेति ॥ पूर्व दिशाकू चले ताकू सूर्य तो जेमने भागमें होय शृगाली बाई बोले तो वाकू पृथ्वीपतिपनो होय ॥ १३ ॥ पुमानिति ॥ जो पुरुष दक्षिण दिशा जातो होय. वाके अगाडी शृगाली बोले जो सूर्यभी शृगालीके सम्मुख होय तो शीघ्रही गंताकी मृत्यु होय ॥ ४४ ॥ नरस्येति ॥ दक्षिणदिशामें गमन कर्ताकू जो पीठपीछे शृगाली शब्द बोले तो सात रात्रिमें मरण होय ॥ १५ ॥ दिशमिति ॥ पश्चिमदिशाकू गमन कर वाके सम्मुख बोले तो शांतदिशाम हो। तो शांत फल देव और दीत दिशामें होय
Aho ! Shrutgyanam