________________
. शिवारुते स्वराष्टकप्रकरणम्। (४९५) धनाप्तिमिष्टाप्तिमभीष्टलाभं लाभं ततोऽर्थस्य फलं शुभं च ॥ भयप्रणाशं सकलंच सौख्यमेकादिशब्दैः कुरुते प्रशांते ॥२२॥ भयान्यनिष्टश्रुतिरर्थहानिरिष्टैर्वियोगो महती च भीतिः ॥ स्याद्विवरातिमरणं च दीप्ते त्वेकादिना फेत्कृतिसप्तकेन ॥२३॥ ऐंयां निनादे प्रथमेऽर्थलाभो भवेद्वितीये निधिदर्शनं च ॥ कन्यातृतीये लभते चतुर्थे बंधवागमः पंचमकेऽर्थसिद्धिः ॥२४॥ पष्ठे खे कुप्यति भूमिनाथो भीः सप्तमे स्याद्विफलोऽष्टमस्तु॥ त्रासोऽग्निभागेप्रथमे द्वितीये नराधिपः कुप्यति भीस्तृतीय॥२६॥
॥ टीका ॥ नाष्टमानां शिवारुतानामशेषं यद्यत्फलं तत्तद्वयमुदीरयामः । एकः एकसंख्याकः आदौ येषु ते तथोक्ताः तेषाम् । पुनः कीदृशानां शिवारुतानां निधनो निधनाख्यः अष्टमो येषु ते तथोक्तास्तेषामित्यर्थः ॥ २१॥ धनाप्तिमिति ॥ प्रशांतदिग्विभागे एकादिशब्दैः एकशब्दमादौ कृत्वा यावत्सप्तशब्दास्तैः अनुक्रमेण धनाप्तिं इष्टाप्ति अभीष्टलाभं अर्थस्य लाभं फलं शुभं च भयप्रणाशं सकलं सौख्यं च शिवा कुरुते॥ ॥ २२ ॥ भयानीति ॥ दीप्ते दिग्विभागे एकादिना फेत्कृतिसप्तकेन भयानि १ अनिष्टश्रुतिः २ अर्थहानिः३ इष्टैर्वियोगः ४ महती च भीतिः ५ विडार्तिः ६ मरणं ७ च स्यात् ॥ २३ ॥ ऐंयामिति ॥ पूर्वस्यां प्रथमे निनादे अर्थलाभो भवेत् । द्वितीये शब्द निधिदर्शनं भवति । तृतीये कन्या लभ्यते । चतुर्थे बंधवागमः स्यात्।। ॥२४॥ षष्ठे इति ॥ षष्ठे रवे शब्दे भूमिनाथः कुप्यति । सप्तमे भी: स्यात् । अ
॥भाषा॥
आठमो जिनमें ऐसे शगालीके शब्दनको जो जो समय फल है सो सो हम कहहैं ॥ २१ ॥ धनाप्तिमिति ॥ शांत दिशामें एककू आदि ले सात शब्द बोले तो शृगाली अनुक्रम करके धनकी प्राप्ति इष्टको प्राप्ति अभीष्टको लाभ अर्थको लाभ शुभ फल भयको नाश सौख्य करे ॥ २२ ॥ भयानीति ॥ दीप्तदिशामें एकंकू आदि ले सात शब्द बोले तो भय ५ अनिष्टको श्रवण २ अर्थकी हानि ३ इष्ट जनन करके वियोग ४ महान भय ५ उत्तम वैश्यको पीडा ६ मरण ये होय ॥ २३ ॥ ऐद्यामिति ॥ पूर्वदिशामें पहले शब्दमें अर्थको लाभ होय, दूसरे अब्दमें धन दक्षि, तीसरे शब्दमें कन्या प्राप्त होय, चौथै शब्दमें बंधुको आगमन होय, पांचमें शब्दमें अर्थकी सिद्धि होय ॥ २४ ॥ षष्ठे इति ॥ छठे शब्दमें पृथ्वी
Aho! Shrutgyanam