________________
शिवारुते दग्धादिप्रकरणम् ।
( ४९१ )
समागतेऽह्नः प्रहरे चतुर्थे प्रेतेशरक्षः पतिपाशिदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्यय बंधनानि ॥ ७ ॥ आद्ये निशायाः प्रहरे प्रवृत्ते रक्षोऽधिपांभःपतिवातदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ ८ ॥ ततो द्वितीये प्रहरे रजन्यास्तोयाधिनाथानिलसोमदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ ९ ॥ यामे तृतीयेऽपि हि यामवत्याः समीरदोषाकरशंभुदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ १० ॥
॥ टीका ॥
रटंती शिवा संत्रासकायव्ययबंधनानि कुरुते ६ ॥ समागते इति ॥ अह्नः तुरीये चतुर्थे प्रहरे समागते सति प्रेतेशरक्षः पतिपाशिदिक्षु प्रेतेशो यमः रक्षः पतिः रक्षोऽधिपतिः पाशी वरुणः एतेषां द्वंद्वः तेषां दिक्षु दक्षिणनैर्ऋत्यपश्चिमासु रटंती शिवा संत्रास कायव्यय बंधनानि कुरुते ॥७॥ आद्ये इति ॥ निशाया आद्ये प्रहरे प्रवृत्तेः सति रक्षोधिपभिः पतिवातदिक्षु | क्वचिद्रक्षः प्रचेतोनिलदिक्षु चैवमित्यपि पाठः नैर्ऋपश्चिमवादिक्षु क्रमेण पूर्वोक्तं फलं कुरुते ॥ ८ ॥ तत इति ॥ ततो रजन्याः द्वितीये प्रहरे तोयाधिनाथानिलसोमदिक्षु वरुणवायुकुबेरदिक्षु क्रमेण पूर्वीक्तं फलं कुरुते ||९|| यामे इति ॥ यामवत्या रजन्यास्तृतीये यामे समीरदोषाकर।
॥ भाषा ॥
भय, शरीरको नाश, बंधन ये होंय ॥ ६ ॥ समागते इति ॥ दिनके चाथे प्रहरमें दक्षिण नैर्ऋत्य पश्चिम इन दिशानमें शुगाली बोले तो भयं शरीरको नाश, बंधन ये क्रम करके करै ॥ ७ ॥ इति ॥ रात्रिके पहले प्रहरमें नैर्ऋत्य पश्चिम वायुकोण इन दिशान में बोले तो पहले कहे हुये फल जाननो ॥ ८ ॥ तत इति । रात्रिके दूसरे प्रहरमें पश्चिम वायु उत्तर इनदिशान में बोले तो गाली भय देहको नारा बंधन करे ॥ ९ ॥ वामे इति ॥ रात्रिके तीसरे प्रहर में वायुकोण उत्तर ईशान इनमें बोलै
तो भय, देहको नाश बंधन
Aho! Shrutgyanam