________________
(४९२) वसंतरानशाकुने-कोनविंशतितमो वर्गः । समागते रात्रितुरीययामे निशाकरेशानसुरेशदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ ११ ॥ इति वसंतराजशाकुने शिवारुते दग्धादिप्रकरणं प्रथमम् ॥१॥ इतीरितं दिक्त्रययामयोगात्फलं विरुद्धं विरुतैः शिवायाः॥ ब्रूमोऽथ दिक्पंचकयामयोगात्फलानि पुंसां क्रमतः शुभानि ॥ १२ ॥ कृतांतरक्षोवरुणानिलेंदुदिक्ष्वाद्ययामे रटितैः शृगाल्याः ॥ स्यादिष्टवार्ताश्रुतिरिष्टसिद्धिलाभः सुभिक्षं प्रियलोकसंगः॥ १३॥
॥ टीका॥
शंभुदिक्षु वायुसोममहेशदिक्षु रटती शिवा पूर्वोक्तफलप्रदा ज्ञेया ॥ १०॥ समाग: ते इति ॥ रात्रितुरीययामे समागते सति निशाकरेशानसुरेशदिक्षु उत्तरेशानपूर्वदिक्षु रटंती शिवा संत्रासेति पूर्वोक्तफलप्रदा स्यात् ॥११॥
___ इति वसंतराजशाकुने शिवारुते दग्धादिप्रकरणम् ॥ १॥ इतीति ॥ इति पूर्वोक्तप्रकारेण अम्माभिः दिक्त्रययामयोगाच्छिवायाः विरुतैः विरुद्धं फलमीरितं कथितम् ।अथ दिक्पंचकयामयोगात्क्रमतः अनुक्रमेण शुभानिफलानि पुंसां मनुष्याणां वयं ब्रूमः कथयामः॥१२॥ कृतांतेति ॥ दिनाद्ययामे दि. वसस्य प्रथमप्रहरे कृतांतरक्षोवरुणानिलेंदुदिक्षु दक्षिणनैर्ऋत्यपश्चिमवायूत्तरदिक्षु शृगाल्या रटितैः इष्टवार्ताश्रुतिः इष्टसिद्धिलाभासुभिक्षं प्रियलोकसंगः स्यात्।यथा
॥ भाषा॥
करै ॥ १० ॥ समागते इति ।। रात्रेके चौथे प्रहरमें शृगाली उत्तर ईशान पूर्व इनमें बोले तो भय देहको नाश बंधन करै ॥ ११ ॥
इति वसंतराजशाकुने भाषाटीकायां शिवारुते दग्धदीप्तधूमितदिक्त्रयप्रकरणं प्रथमम् ॥ १॥ . इतीति ॥ या प्रकार हमने तनिदिशाके प्रहरके योगसूं शिवाफे शब्दन करके विरुद्ध फल मानु खोटे फल कहेहैं अब पांचों दिशानके प्रहरके योगसू क्रमकरके फल कहैं हैं ॥ १२॥ कृतांतेति ॥ दिनके पहले प्रहरमें शगाली दक्षिण नैत्य पश्चिम वायु उत्तर इन दिशानमें बोले तो वांछित वार्ताको श्रवण इष्टसिद्धिको लाभ सुभिक्ष प्रियलोकको संग
Aho! Shrutgyanam