________________
(४९०) . वसंतराजशाकुने–एकोनविंशतितमो वर्गः ।
दग्धा दिगुक्ता दिननाथमुक्ता विवस्वदाप्ता भवति प्रदीप्ता ॥ साधूमितायां सविता प्रयातिशेषा दिगंताः खलु पंच शांताः ॥२॥ दग्धा दिगैशी ज्वलिता दिगैंद्री धूमान्विता चानलदिक्प्रभाते ॥ प्रत्येकमेवं प्रहराष्टकेन भुंक्ते दिशोऽष्टौ सविता क्रमेण ॥३॥ आये दिनस्य प्रहरे प्रवृत्ते महेशदेवेशहुताशदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ ४॥ अह्नो द्वितीये प्रहरस्य भागे सहस्रनेत्रानलकालदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥५॥प्राप्ते तृतीये प्रहरे दिनस्य हुताशवैवस्वतयातुदिक्षु ॥ शिवा रटंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥६॥
॥टीका॥ विशेषतः विशेषादुपयुज्यते उपयोगी भवति ॥ १॥ दग्धेति ॥दग्धेति इदं वृत्तद्वयं पूर्वव्याख्यातत्वान्न व्याख्यातम् ॥२॥३॥ आयेति ॥ दिनस्य आये प्रहरे प्रवृत्ते सति महेशदेवेशहुताशदिक्षु महेशः शंकरः देवेशः इंद: हुताशो वह्निः एतेषां द्वंद्वः। तेषां दिक्ष ईशानपूर्वाग्रिकोणेष्वित्यर्थः। रटंती शिवा क्रमेण संत्रासकायव्ययवन्धनानि कुरुते । संत्रासो भयं कायव्ययः शरीरनाशः बंधनं काराक्षेपः एतेषां बंदः ॥ ४॥ अह्न इति ॥ अहः दिवसस्य द्वितीये प्रहरस्य भागे सहस्रनेत्रानलकालदिक्षु पूर्वा मिदक्षिणदिक्षु रदंती शिवा संत्रासकायव्ययबंधनानि कुरुते: गतार्थमेतत् ।। ५ ॥ प्राप्ते इति ॥ दिनस्य तृतीये प्रहरे प्राप्ते सति हुताशवैवस्वतयातुदिक्ष हुताशः अग्निः वैवस्वतो यमः यातुःराक्षसःएतेषां द्वंद्वः तेषां दिक्षु अमिदक्षिणनैर्ऋत्यदिक्षु इत्यर्थः।
॥ भाषा॥ पते उपयोगी होय है ॥ १ ॥ दग्धेति ॥ दग्धेति दूसरे श्लोककी और तीसरे श्लोककी टीका पहले कहआये इनको विस्तार बहुत यासू नहीं कियो ॥ २॥ ३॥ आये इति ॥ दिनके प्रथम प्रहरमें शृगाली ईशान, पूर्व, अग्निकोण इनमें बोले तो त्रास, नाश, भय, शरीरको नाश, बंधन ये क्रमकरके होय. ॥ ४ ॥ अह्न इति ॥ दिनके दूसरे प्रहरमें शृगाली पूर्व 'अग्निकोण दक्षिण इन दिशानमें बोले तो भय शरीरको नाश बंधन ये करे ॥ ५ ॥ प्राप्ते इति ॥ दिनके तीसरे प्रहरमें अग्निकोण दक्षिण नैर्ऋत्यकोण इनमें शगाली बोले तो
Aho ! Shrutgyanam