________________
श्वचेष्टिते जीवितमरणप्रकरणम् । (४६९) विधूय कर्णौ परिवर्त्य गात्रं प्रस्वापलीला भलुहोऽभ्युपैति ॥ यदा तदानीमचिरेण कालः क्रोडी करोत्यामयिनं प्रसह्य । ॥ १५७ ॥ संकोचितांगः पिहिताक्षियुग्मो निरस्तशंकं शुनकः शयानः॥ व्यात्ताननो मुंचति यस्तु लालां स रोगिणं मारयति क्षणेन ॥ १५८॥ निष्कारणं यः प्रपलायते वा विरौति वा वारिणि योतिभीतः ॥ मृतांगरज्वस्थिमुखोऽथ वा यो गेहं विशत्याशु स मृत्युमाह ॥ १५९॥
अत्यंतमालस्यमपास्य यक्षो दिने दिने भास्करसंमुखं यः॥ उद्वेगकारी भषति प्रभूतं ब्रवीति देशाधिपतेः स मृत्युम्॥१६०॥
॥ टीका ॥ चित्तवृत्तिः शेते तदा रोगी क्षणेन परेतनाथो यमस्तस्यः आवसथं गृहम् उपैति गच्छति ॥"धिष्ण्यमावसथः स्थानं पस्त्यं संस्त्याय आश्रयः"॥इति हैमः॥१५६॥ विधूयेति॥यदा भलुहः अस्थिभुक् कर्णी विधूय गात्रंःशरीरं परिवर्त्य शरीरस्य परिवतंनं कृत्वा प्रस्वापलीलाम् अभ्युपैति तदा कालो यमः आमयिनं रोगिणंम् अचिरेण शीघ्र प्रसह्य हठात्क्रोडी करोति उत्संगे ग्रहाति ॥ १५७ ॥ संकोचिते ॥यः शुनका संकोचितांगः पिहिताक्षियुग्मः निरस्तशंकं यथास्यात्तथा शयानाव्यात्ताननः विपाटितवदनःलाला मुंचतिस क्षणेन रोगिणं मारयति यमसदनं प्रापयतीत्यर्थः॥१५८॥ । निष्कारणमितिायः श्वा निष्कारणं प्रपलायते नश्यति यो वा वारिणि अतिभोतः विरौति अथ वा यः मृतांगरज्वस्थिमुखः मृतांगरज्जुः अस्थि च मुखे यस्य सः तथोक्तः गेहं विशति स आशु मृत्युमाह॥१५९॥अत्यंतमिति ॥ यः यक्षः अत्यंतम्
॥ भाषा॥ यमराजके घरकू जाय ॥ १५६ ॥ विधूयति ॥ जो इवान काननळू हलाय शरीरकू समेट करके सोय जाय तो यमराज रोगीकू शीघ्रही हठसूं गोदमें धरले ॥ १६७ ।। संकोचितति ॥ जो श्वान अंगकं समेट कर दोनों नेत्र मीचकर निःशंक होय मोढो फाटकर लाल मुखमेंसूं छोडतो हुयो सतो होय तो रोगीकू क्षणमात्रमें यमलोककू प्राप्तकरै ॥ १५८ ॥ निष्कारणमिति ॥ जो श्वान विनाकारण भागजाय और नष्ट होय जाय अथवा जलमें अतिभयवान् होय रोवे अथवा मरेको अंग जेवडी हाड ये जाके मुखमै होय वो शान घरमें प्रवेश कर जाय तो शीघ्रही मृत्यु कहै है ऐसों जाननो ॥१५९ ॥ अत्यंतमिति ।।
Aho! Shrutgyanam