________________
: ( ४६८ )
वसंतराजशाकुने- अष्टादशो वर्गः ।
पुनः पुनर्दक्षिणमूरुभागं लिहन्दिनैः पंचभिराह मृत्युम् ॥ यमक्षयं तत्क्षणमेव यक्षः क्षिपत्यवश्यं जठरावलेहात् ॥ ॥ १५३ ॥ अवामभागेन यदा वलित्वा वा पृष्ठकंडूति - मपाकरोति ॥ तदह्नि तत्रैव कृतांतगेहूं रोगाभिभूतो नियतं प्रयाति ॥ १५४ ॥ पुच्छोरसोर्लेहनसिंहनाभ्यां प्रवर्तिताभ्यां सरमासुतेन ॥ क्रमादिनानां त्रितयद्वयाभ्यां भवे
वं रोगवतोऽवसानम् ॥ १५५ ॥ पृष्ठे निमित्तेऽलसचित्तवृत्तिः संकुच्य गात्राण्यखिलानि शेते ॥ कौलेयकश्चेत्तदुपति रोगी परेतनाथावसथं क्षणेन ॥ १५६ ॥ ॥ टीका ॥
1
सिकामालिहन्दशभिर्दिनैः अंतकृन्नाशकृत्स्यात् ॥ १५२ ॥ पुनरिति ॥ यक्षः पुनःपुनः दक्षिणमूरुभागं लिहन्पंचभिर्दिनैः मृत्युमाह । जठरावलेहात्तत्क्षणमेव यक्षः अवश्यं यमक्षयं यमगृहं क्षिपति प्रवेशयति । "संस्थानमुटजं धाम निवेशः शरणं क्षयः" इत्यमरः॥ ॥ १५३॥ अवामेति ॥ श्वा कौलेयकश्चेदवामभागेन दक्षिणप्रदेशेन वलित्वा वकी भूय पृष्ठकंडूति खर्जूमपाकरोति दूरी करोति । तदा तत्रैव तदह्नि रोगाभिभूतः कृ· तिगेहं नियंतं प्रयाति ॥ १५४ ॥ पुच्छेति ॥ सरमासुतेन पुच्छोरसोः पुच्छं लांगूलमुरः हृदयस्थानमनयोर्द्वद्रः तयोर्लेहनसिंहनाभ्यां प्रवर्त्तिताभ्यां सद्भयां क्रमादिनानां त्रितयद्वयाभ्यां ध्रुवं निश्चयेन रोगवतोऽवसानं नाशो भवेत् ॥ १५५ ॥ पृष्ठे इति ॥ निमित्ते पृष्ठे सति चेत्कौलेयकः अखिलानि गात्राणि संकुच्य अलस
॥ भाषा ॥
मृत्यु होय फिर नासिकाकूं चाटे तो दश दिनकर रोगीको नाश करें ॥ ११२ ॥ पुनरिति ॥ श्वान वारंवार दक्षिण ऊरू भागकूं चाटे तो पांच दिनमें मृत्यु जाननो. जो उदकूं चाटे तो तत्क्षणही श्वान अवश्य यमलोककूं प्राप्त करे || १५३ ॥ अवामेति ॥ जो श्वान जेमने भागमें टेढो होय करके पीठकी खुजलीकूं दूर करे तो रोगीकूं वाईसमय अथवा चा दिनही निश्चय मृत्यु करै ॥ १५४ ॥ पुच्छेति ॥ श्वान पूंछ और हृदयस्थान इनकूं चाटे वा सूंघे तो तीन दिन वा दोय दिनमें निश्चयकर रोगवान् पुरुषकुं नाश वा मृत्यु करै ॥ १५५ ॥ पृष्ठे इति ॥ कोई आय करके प्रश्न करै वा समयमें जो श्वान सबले गनकूं संकोच करके आलस्य युक्त
होय
सोतो होय वा सोयजाय तो रोगी क्षणमात्रमें
Aho! Shrutgyanam