________________
(४५८ ) वसंतराजशाकुने-अष्टादशो वर्गः।
छायांतिकस्थो विदधाति धर्मे यद्युत्कटेन स्थितिमासनेन । उत्पादयत्याशु विरोधमुग्रं तज्जागरूकः सुहृदापि साकम् ॥ ॥ ११९ ॥ शुभप्रदो दक्षिणचेष्टितः स्यात्सर्वत्र काले सकलोयमेषु ॥ शांतं प्रदेशं ककुभं च शांतां श्वा संश्रयेत्प्रातनपुण्ययोगात् ॥ १२०॥ कार्याणि कार्याणि नरेण नित्यं सर्वाणि दीप्तानि शुनि प्रदेशे ॥ तान्यन्यथा यो विदधाति तस्य पतंत्यनर्था वधबंधनाद्याः ॥ १२१ ॥ कंडूयमानः स्वकरं करोति सर्वाणि कार्याणि फलान्वितानि ॥ ब्रह्मप्रदेशे मधुरारवः श्वा ददाति भोज्यं सममामिषेण ॥ १२२ ॥
॥टीका ॥ छायेति ॥ यदि यक्षः छायांतिकस्थः छायास्थितः उत्कटेन आसनेन घर्मे स्थितिं विदधाति तदा स जागरूकः सुहृदापि सार्धमाशु शीघ्रमुग्रं विरोधं कलह मुत्पादयति । क्वचित्मविश्यगेहमिति पाठोऽपि दृश्यते ॥ ११९॥ शुभेति ॥श्वा द. क्षिणचेष्टितः सर्वत्र काले सर्वस्मिन्काले सकलोद्यमेषु सर्वप्रयत्नेषु शुभप्रदः स्यात् । श्वा दक्षिणचेष्टितः सञ्छांतं प्रदेशं शांतं स्थानं ककुभं दिशं च शांतां प्राक्तनपुण्य योगात्प्राचीनपुण्यसंबंधात्संश्रयेदाश्रयेत् ॥ १२० ॥ कार्याणीति ॥ नरेण शुनि पृष्ठे सति सर्वाणि दीप्तानि कार्याणि कर्तव्यानि ॥ अन्यथा उक्तवैपरीत्येन यस्तानि कार्याणि विदधाति तस्य वधबंधनाद्या अनर्थाः उत्पतंति समुत्पद्यते ॥ ॥ १२१ ॥ कडूयमान इति ॥ स्वकरं कंडूयमानः श्वा सर्वाणि कार्याणि फला
॥भाषा ॥
आवे. जो मस्तककू स्पर्श करे तो अति शीघ्र निश्चयकर इष्टजन आवे ॥ ११८ ।। छायेति ॥ जो श्वान छायामें बैठो हुयो होय तो श्रेष्ठ आसन करके धर्ममें स्थिति करै वोही श्वान सुहृद् जनन करके शीध्र बडो उप्र कलह प्रगट करावे ॥११९ ॥ शुभेति ॥ जो श्वान पूर्वजन्मके पुण्ययोगसूं दक्षिण अंगकी चेष्टा करतो होय शांतरथानमें होय शांत दिशामें हाय तो सदासर्वदा संपूर्ण कार्यनमें शुभको देवेबारे जाननो ॥ १२० ॥ का.
र्याणीति ॥ श्वान पीठपीछे होय और चेष्टा स्थान दिशा शब्द ये सब दीप्त होय तो कार्य करवेके योग्य है जो इनसं विपरीत होय जो कदाचित कार्य करे तो वा पुरुषकू वध बंधनादिक प्रकट होय ।। १२१ ॥ कंड़यमान इति ॥ श्वान अपने हाथकू खुजावे तो
Aho! Shrutgyanam