________________
श्वचेष्टिते शुभाशुभप्रकरणम् । (४५७) अत्युच्चनादं यदि वातिदीनं दृष्ट्वा दिनेशं भषणं बहूनांकौलेयकानां वमनं विजृभां निदंति मूर्धश्रवसोश्च कंपम् ॥११॥ द्वारप्रदेशे जघनं विघर्षन्पूजार्हपांथागमनाय यक्षः ॥ करोति तत्रोपविशंश्च पुंसां संगं जनेनाभिमतेन सार्धम् ॥ ११६॥ प्रविश्य गेहं रभसेन यक्षः स्तंभ समालिंगति योऽथवा यः॥ चुल्लीं समारोहति स ब्रवीति समागमं स्निग्धजनेन सार्धम् ॥ ॥ ११७ ॥ सुहृत्समागच्छति दूरदेशात्कंडूयमाने शुनि दक्षिणांगम् ॥ शिरःप्रदेशस्पृशि चातितर्णमिष्टो जनो निश्चित मभ्युपैति ॥ ११८॥
॥ टीका ॥ यकः अभीक्ष्णं वारंवारं भषन्भूम्ने राज्ञे चौरभयाय स्यात् ।। ११४ ॥ अत्युच्चेति ॥ दिनेशंसूर्य दृष्ट्वा वीक्ष्य बहूनां कौलेयकानामत्युच्चनादो यदि वा अतिदीनंभषणं तथा विजृभा जुंभणं तथा वमनं छर्दिः मूर्ध्नः श्रवसोश्च कंपं निंदति क्वचिनिहतीति पाठः ॥११५॥द्वारेति ॥ द्वारप्रदेशे जघनं विघर्षन्यक्षः पूजार्हपांथागमनाय भवति । तत्र द्वारप्रदेशे उपविशंश्च श्वा पुंसामाभिमतेन जनेन साध संगं करोति ॥११६। प्रविश्येति ॥ यो यक्षः गेहं प्रविश्य स्तंभ समालिंगति अथवा य:चुल्लीं समारोहति स यक्षः स्निग्धजनेन सार्धं समागम संबंधं ब्रवीति ॥ ११७ ॥ सहदिति ॥ शुनि दक्षिणांगं कंड्यमाने दूरदेशात्सुहृन्मित्रं समागच्छति आयाति । शिरःप्रदेशस्पृशि शिरसः प्रदेशं स्पृशीति शिरःप्रदेशस्पृक् तस्मिञ्छिर प्रदेशस्पृशि शुनि च अतितूर्णमतिशीघ्र निश्चितं निश्चयेन इष्टो जनः अभ्युपैति आगच्छति ॥ ११८ ॥
॥ भाषा ॥ अत्युच्चेति ॥ सूर्य देखकरके बहुतसे श्वान अति ऊंचो शब्द करै. अथवा अति दीन बोल वा तैसेही जंभाई लेवे वा वमनकरै वा मस्तक कानळू कंपायमान करै तो वे इयान निदित जानने, वा वे कार्यकू नाश करै ॥ ११५ ॥ द्वारेति ॥ घरके द्वार देशमें जंघाकं घिसै तो पूजवेके योग्य मार्गको चलो हुयो कोई आवै. जो इवान द्वारदेशमें बैठो होय तो वांछित जनन करके समागम होय ॥ ११६ ॥ प्रविश्येति ॥ जो श्वान घरमें प्रवेश करके स्तंभसू आलिंगन करै अथवा चूल्हे चढ जाय तो स्नेहवान् पुरुषको समागम करावे ॥ ११७ ॥ सुहृदिति ॥ इवान जेमने अंगकू खुजावे तो दूरदेशते मित्र सुहृद्,
१ सचापपाठ इति भाव ।
Aho ! Shrutgyanam