________________
(४३८) वसंतराजशाकुने-अष्टादशो वर्गः । संमत्रयञ्श्वा रमणीयदेशे चेष्टामवामां ललितां प्रकुर्वन् ॥ स्यादर्भवत्याः सुतजन्महेतुश्चेष्टाश्च कन्याजननाय वामाः॥४९॥ विष्ठावमिश्वासविज़ंभणानि प्रस्वापकासांगविमोटितानि ॥ यद्याचरत्याशु तदाकरोति वागर्भवत्याः खलु गर्भपातम॥५०॥ क्रीडां विधत्ते शुभचेष्टितोयः सोऽभीष्टयोगं विदधातियक्षः॥ वामां च चेष्टां विदधन्नराणामिष्टेन सार्धविरहं ब्रवीति॥५॥ शुभस्वरो यः शुभचेष्टितः श्वा करोति मूत्रं च शुभप्रदेशे ॥ ददात्यसाबुद्यमिनां हृदिस्थंनिःसंशयंधान्यधनादिलाभम्॥५२॥
॥ टीका ॥
विलासिनीसंग्रहणं स्वीकारं विदध्यात्। “भुजंगो गणिकापतिः"इत्यमरःवेश्या पुनः शुनि वामचेष्टे सति कामुकवंचनाय कामुकस्य भर्तुःवंचनं विप्रतारणं तस्मै निवासं गृहवासं कुर्यात् ॥ ४८ ॥ संमूत्रयन्निति । श्वा रमणीयदेशे मनोज्ञप्रदेशे संमूत्रयन्प्रस्रवणं कुर्वत्रवामां ललितां च चेष्टां प्रकुर्वन्गर्भवत्याः सतजन्महेतुः स्यात्।अथ वामाश्चेष्टाः कन्याजननाय भवंति ॥ ४९ ॥ विष्ठेति ॥ विष्ठा विट् वमिः वांतिः श्वासः पवनः विजृभणं जूंभा तानि प्रस्वापः शयनं कासः प्रतीतः अंगविमोटितं अंगभंगः कचिदंगविलोडनानीति पाठः । यद्येतानि श्वा आचरति तदा आशु शीघं गर्भवत्याः खलु निश्चितं गर्भपातं करोति ॥ ५० ॥ क्रीडामिति ॥ शुभवेष्टितो यःयक्ष क्रीडां विधत्ते स नराणामभीष्टयोगं विदधाति वामां च चेष्टां विदधनिष्टेन साई विरहं ब्रवीति कथयति॥५१॥ शुभेति ॥ यः श्वा शुभस्वरः शुभचष्टित
॥भाषा॥ स्वीकार करे. और वेश्या श्वान जो बाई चेष्टा करतो होय तो कामी भर्तारके ठगवेके अर्थ निवास करै ॥ ४६॥ संमूत्रयनिति ।। जो श्वान सुंदर शोभित. स्थानमें मूत्र करे, और जेमनी मनोहर चेष्टा करतो होय तो गर्भवतीके बेटा होय. अथवा बांई चेष्टा करतो होय तो कन्याको जन्म होय ॥ ४९॥ विष्ठेति ॥ विष्ठा, वमन, श्वास, जंभाई, सोवनी, खांसी, अंगको मरोडनो इन चेष्टानकू श्वान आचरण करतो होय तो शीघ्र गर्भवतीको निश्चय गर्भपात होय ॥ ५० ॥ क्रीडामिति ॥ शुभचेष्टा करत श्वान क्रीडा करे तो मनुष्यनकू वांछित फल करै. जो बाई चेष्टा करतो होय तो इष्ट प्यारे जनन करके वियोग करावे ॥ ११ ॥ शुभेति ॥ खान शुभ शब्द बोले शुभ चेष्टा करे फिर सुंदर स्थानमें मूत्र
Aho! Shrutgyanam