________________
(४०६) वसंतराजशाकुने-सप्तदशी वर्गः। अथेतरा रक्तपिपीलिकाभ्यो नियोति चेदाधकमंतरेण ॥ अंडान्युपादाय पयः पयोदो मुंचेत्तदेति प्रवदंति वृद्धाः॥१५॥ इति वसंतराजशाकुने षोडशो वर्गः ॥ १६॥ कुडयमत्स्य इति योऽभिधीयते पल्लिकेति गृहगोधिकेति च ॥ कालदिकमवशेन निर्मितं तस्य शाकुनमुदीर्यतेऽधुना ॥१॥ सूर्योदये पूर्वदिशि ब्रुवाणा पल्ली भयं जल्पति भूमिपालात।।
हुताशभीति प्रहरप्रदेशे मध्यंदिने दूतमुखेन वार्त्ताम् ॥२॥ अथेति ॥ अथ रक्तपिपीलिकाभ्यः इतराः कीटिकाः बाधकमंतरेण कारणव्यतिरेकेण अंडान्युपादाय चेन्नियाँति तदा पयोदो मेघः पयः पानीयं मुञ्चेदिति वृद्धाः प्रवदंति ॥ १५॥
ग्रथांतरे त्वेवं-पिपीलिकायाः दिग्विभागफलं तस्य यात्रोपरि इदम् ॥ इति श्रीवसंतराजटीकायां विचारितपिपीलिकाप्रकरणे षोडशो वर्गः ॥ १६ ॥
अधुनेति ॥ अधुना तस्य शकुनमुदीर्यत अभिधीयते कीदृशं शकुनं कालदि. क्रमवशेन निर्मितं कालश्च दिक्च तयोः क्रमवशेन अनुक्रमवशेन संपादितं यत्तदो नित्याभिसंबन्धात्तस्य कस्यत्याह । यः कुडयमत्स्य इति पल्लिका इति गृहगोधिका इति च अभिधीयते कथ्यते ॥१॥ सूर्योदयेति ॥ सूर्योद्गमे सति पूर्वदिशि ब्रुवाणा पल्ली भूमिपालादाज्ञः भयं जल्पति प्रहरप्रदेशे पूर्वस्यां दिशि हुताशभीतिममिभयं तथा पूर्वस्यामेव मध्यंदिने मध्याह्ने दूतमुखेन वार्ता जल्पतीत्यस्य सर्वत्र
॥ भाषा॥
अथेति ॥लालकीडीनतूं और कीडी कोई कारण विना अंडा लेके निकसे तो मेघ जलकी वर्षा करें. ये वृद्धनको वाक्य है ॥ १५ ॥ प्रथांतरमें कीडिनको दिगविभागको फल यात्राके ऊपस्पै चक्रलिखो है ॥ १६ ॥
इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराजभाषाटीकायां पिपीलिकाफलविचारो नाम षोडशो वर्गः ॥ १६ ॥
अधुनेति ॥ अब पल्लीको शकुन कालदिशा इनके क्रमकरके कह्यो हुयो हम कहैहैं ॥ १ ॥ सूर्योदयेति ॥ सूर्यके उदयसमयमें पूर्वदिशामें पल्ली बोले तो राजाते भय होय, फिर प्रथम प्रहरमें पूर्वदिशामें बोले तो अग्निको भय होय. और पूर्वदिशामें दूसरे प्रहरमें
Aho !Shrutgyanam.