________________
(४०२) वसंतराजशाकुने-षोडशो वर्गः।
अत्यर्थपूर्णे जलकुकसाभ्यां ग्राह्यं गृहे नेष्टमथाप्यनिष्टम् ॥ स्तोकस्थितावस्करनीरदेशे पिपीलिकानां शकुनं गवेष्यम् ॥ ॥२॥ स्थूलास्तथा याः कपिलाः कदाचिदृग्गोचरं यांति वृतेटिकाख्याः॥ विज्ञेन तासां शकुनं गवेष्यं पिपीलिकानामिह नापरासाम् ॥३॥ विनिर्गताः प्राग्गृहगर्भभूमेः कुर्वति शून्यं भवनं घृतेव्यः॥अग्नेविभागे स्वजनागमाय भवंति वृद्धयै दिशि दक्षिणस्याम् ॥४॥ पयोधरो वर्षति यातुधान्यां योषिद्धनाप्तिर्दिशि पश्चिमायाम् ॥ विहाय गेहं गृहिणी प्रयाति विनिर्गताभिर्दिशि मारुतस्य ।। ॥
॥ टीका ॥ मुनिसम्मतेन मुनिप्रणीतेन ॥ १ ॥ अत्यर्थेति ॥ जलकुक्कसाभ्यां पानीयतुषाभ्यां अत्यर्थपूर्णे गृहे इष्टं शुभमथाप्यनिष्टमशुभं शकुने न ग्राह्यं स्तोकस्थितावस्करनीरदेशे स्तोकस्थितः अवस्करः अवकर कचर इति प्रसिद्धः नीरं च जलं च यत्र एवं. विधे देशे पिपीलिकानां कीकानां शकुनं गवेष्य गवेषणीयम् ॥ २ ॥ स्थूला इति । याः स्थलास्तथा कपिलाः पिंगलाः घृतेटिकाख्या वृतेटिका इति आख्या अभिधानं यासां ताः तथोक्ताः कदाचिदृग्गोचरं यांति विज्ञेन पंडितेन तासां पिपीलिकानामिह शकुनं गवेष्यम् अपरासां न गवेष्यमित्यर्थः ॥३॥ विनिर्गता इति । घृतेश्यः प्राक्पूर्वस्यां दिशि गृहगर्भभूमेः गृहमध्यभूमेः विनिर्गताः निमृताःभवनं शून्यं कुर्वति अग्रेविभागे आग्नेय्यां गेहस्येति शेषःनिर्गता स्वजनागमाय भवंति। गृहस्य दक्षिणस्यां दिशि निःसृताः वृद्धयै भवंति॥४॥ पयोधर इति ॥ यातुधान्यां नैऋत्यां विदिशि वि
॥ भाषा ।। इनको है ॥ १ ॥ अत्यर्थेति ॥ जल और तुष इन करके अत्यंत भरो हुयो घर चामें शम अशभ शकुन नहीं देखनो. और थोडी जगहमें कृडोकचरो जल ये होय तहां कीडीनको शकुन देखनो योग्य है ॥ २ ॥ स्थूला इति ॥ स्थूल होय, कपिल वर्ण जाको होय, घतेटिकावा घीमेलिये जिनके नाम ऐसी दीख जाय तो उनकीडीनको शकुन ढूंढनो योग्यहै, औरनको शकुन नहीं देखनो ॥ ३ ॥ विनिर्गता इति ॥ घृतेटिका घरकी मध्यभूमिसू पूर्व दिशामें निकसै तो सूनो घर करे. जो घरके अग्निकोणमें निकसै तो स्वजन जनको आगम करे. और घरके दक्षिणदिशामें निकसै तो वृद्धि कर ॥ ४ ॥ पयोधर इति ॥
Aho ! Shrutgyanam