________________
पिंगलारुते शुभचेष्टाप्रकरणम् ।
( ३७१ )
दिक्स्थान चेष्टाभिरनिष्टमिष्टं यत्पिंगलायाः फलमामनंति ॥ तथैव तादृक्सुधिया समस्तं खगांतरेभ्योऽप्युपलक्षणीयम् ॥ ॥ १७९ ॥ एतच्चेष्टादिकमिह सकलं ज्ञेयं विज्ञैर्नियतं सफलम् ॥ पिंगलिकायाः कर्मसु बहुषु द्यूतरसायनजयगमनादिषु १८० शुभचेष्टाभ्यः पुनरितरा अशुभाश्चेष्टाः स्वयमेवोद्याः ॥ दुष्टफला नोक्ताः पृथगिहतो न हि पथिकाः पथिकामतया १८१ इति वसंतराजशाकुने पिंगलारुते शुभचेष्टाफलप्रकरणं दश
मम् ॥ १० ॥
॥ टीका ॥
नं वामपदा न भद्रम् ॥ १७८ ॥ दिगिति ॥ दिवस्थानचेष्टाभिः अनिष्टमिष्टं वा यत्पिंगलायाः फलमामनंति खगांतरेभ्योऽपि तथैव तादृक्सुधिया सुबुद्धिना समस्तं फलमुपलक्षणीयम् ॥ १७९ ॥ एतदिति ॥ पिंगलिकायाः कर्मसु बहुषु द्यूतरसायन जयगमनादिष्वेतच्चेष्टादिकमिह सकलं ज्ञेयं विज्ञैः पंडितैः ॥ १८० ॥ शुभेति ॥ शुभचेष्टाभ्यः पुनरितराः अशुभाः चेष्टाः पथिकामतया दुष्टफलाः येन स्वयमेवोह्या स्तेनेह पृथक् नोक्ताः पृथक् छंदः ॥ १८१ ॥
इति वसंतराजटीकायां पिंगलारुते शुभचेष्टाप्रकरणं दशमम् ॥ १० ॥
॥ भाषा ।।
नहीं होय ॥ १७८ ॥ दिगिति ॥ जो पिंगला के दिक्स्थानचेष्टानकरके अनिष्ट वा इष्ट फल कह हैं, "तेसेही सुंदर बुद्धि करके और पक्षीनतेहूं समस्तफल जाननो योग्य है ॥ १७९ ॥ एत दिति ॥ पडितनकरके पिंगलिकाकी ये चेष्टादिक जुआँ, रसायन, जय, गमन इनकूं आदिले बहुतसे कर्मनमें फलसहित निश्चय सब जाननो योग्य है ॥ १८० ॥ शुभेति ॥ पिंगलिकाकी शुभचेष्टानते न्यारी इष्ट फल जिनके ऐसी अशुभ चेष्टा हैं वे इनके जानेसूं आपही जानवेमें आय जाय हैं तासूं हमने न्यारी नहीं कही हैं ॥ १८१ ॥
इति वसंतराजशाकुने भाषाटीकायां पिंगलारुते शुभचेष्टाफलमकरणं दशमम् ॥१०॥
Aho! Shrutgyanam