________________
(३७०) वसंतराजशाकुने-त्रयोदशो वर्गः। । महार्थलाभोऽरिपराजयश्च पक्षद्वये मूर्ध्नि कृते भवेताम् ॥एकत्र पक्षद्वितयेऽथवापिविस्तारिते पिंगलया धनादः॥१७॥ महदनं देहजपक्षपुच्छप्रसारणाचंचुपुटेन पुंसाम् ॥ सुगंधिवस्तूनि वसु प्रभूतं घोणाग्रकंड्रयनतो ददाति॥ १७६॥ललाटकंड्यनतो नरस्य स्यात्पबंधो महती च कीर्तिः। एवंविधाः शोभनकायचेष्टाः स्युः पिंगलायाः शुभदाः सदैव ॥ ॥ १७७॥ चंच्या पदा वा यदि वाममंगं कंडूयते सा शुभदानचेष्टा ॥ स्यादक्षिणस्यापि कलेवरस्य कण्डयनं वामपदा न भद्रम् ॥ १७८॥
॥ टीका ॥ महार्थेति ॥ पिंगलया पक्षद्वये मूर्ध्नि कृते सति महार्थलाभश्चारिपराजयश्च भवेताम् अथ वा एकत्र पक्षद्वितये विस्तारित धनर्द्धिः स्यात् ॥१७५॥ महदिति ॥ चंचुपुटेन देहजपक्षपुच्छप्रसारणादेहजानां केशानां पुच्छस्य च प्रसारणात्पुंसां महद्धनं घोणायकंडूयनतः योणायाः नासिकायाःअग्रस्य कंडूयनतः “घोणा नासाच नासिका" इत्यमरः। मगंधिवस्तूनि प्रभूतं वसु च ददाति ॥ १७६ ॥ ललाटति ॥ ललाटकंड्रयनतः नरस्य पट्टबंधः स्यात् महती च कीर्तिः स्यात् एवंविधायाः पिंगलायाः शोभनकायचेष्टाः सदैव शुभदाः स्युः॥ १७७ ॥ चंच्वति ॥ चंच्वा पदा चरणेन च यदि वाममंगं कंडूयते सा चेष्टा शुभदा न स्यात् दक्षिणस्यापि कलेवरस्य कंड.
॥ भाषा ॥
अलकार भूषणनको लाभ, और अन्यदेशते धनको आगम ये होय ॥ १७४ ॥ महा. थति ॥ जो पिंगलने अपने दोनों पंख मस्तकपे धरलिये होय तो महान् अर्थको लाभ, वैरीको पराजय होय. जो एक पंख अथवा दोनों पंख फैलाय दिये होय तो धनकी ऋद्धि होय ॥ १७५ ॥ महद्धनमिति ॥ जो चोंचकरके केश पंख पूंछ इने फैलाय दे तो पुरुषनकं महान् धन देवे. जो नासिकाके अग्रभागकं खुजावे तो सुगन्धवान् वस्तु और 'बहुतसों धन देवै ॥ १७६ ॥ ललाटेति ॥ जो पिंगला ललाटकू खुजावे तो पट्टवन्धन न होय. और महान् कीर्ति होय पिगलाकी ऐसी ऐसी सुन्दर देहकी चेष्टा सदा शुभकरवे वाली है ॥ १७७ ॥ चंच्चेति ॥ चोंचकरके वा चरणकरके जो बांये अंगकू खुजावे तो ये चेष्टा शुभकी देबेवारी नहीं है, और बायें पांवकरके दक्षिणदेहकू खुजावे तो कल्याण
Aho ! Shrutgyariam